पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९२
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


देशकालोपपन्नं च कार्यं कार्यविदां वर । सफलं कुरुते क्षिप्र प्रयोगेणाभिसंहितम् ।। ६५
उद्योगं तव संप्रेक्ष्य मिथ्यावृत्तं च रावणम् । वालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम् ॥६६
राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतः । एतावत्तु पुरस्कृत्य युज्यते त्वस्य संग्रहः ।।६७
यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति । त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर ॥ ६८

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे विभीषणशरणागतिनिवेदनं नाम सप्तदश: सर्ग:

अष्टादशः सर्गः

विभीषणसंग्रह निर्णयः

अथ राम प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह । प्रत्यभाषत दुर्धर्षः श्रुनवानात्मनि स्थितम् ॥ १
ममापि तु विवक्षास्ति काचित्पति विभीषणम् । श्रुतमिच्छामि तत्मवं भवद्भिः श्रेयसि स्थितैः ।।
मित्रभावेन संप्राप्तं न त्यजेयं कथंचन । दोषो यद्यपि तस्य स्यात्मतामेतदगर्हितम् ।।३
सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च। ततः शुभनरं वाक्यमुवाच हरिपुंगवः ॥४
सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः। ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत् ।।५
को नाम स भवेत्तस्य यमेष न परित्यजेत् । वानरधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्य च ॥६
ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम् । इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः ॥७
अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च । न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः ॥८
अस्ति सूक्ष्मतरं किंचिद्यदत्र प्रतिभाति मे । प्रत्यक्षं लौकिकं वापि विद्यते सर्वराजसु ।।९
अमित्रास्तत्कुलीनाश्च प्रातिदेशाश्च कीर्तिताः । व्यसनेषु प्रहर्तारस्मादयमिहागतः ॥ १०
अपापास्तन्कुलीनाश्च मानयन्ति स्वकान् हितान् । एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ॥
यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च । तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु ।।
न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः । पण्डिता हि भविष्यन्ति तस्मादग्राह्यो विभीषणः ।।
अव्यग्राश्च प्रहृष्टाश्च न भविष्यन्ति संगताः । प्रणादश्च महानेष ततोऽस्य भयमागतम् ॥ १४
इति भेदं गमिष्यन्ति तस्माद्ग्राह्यो विभीषण । न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः ॥ १५
मद्विधा वा पितु पुत्राः सुहृदो या भवद्विधाः । एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः।।।
उत्थायेदं महाप्राज्ञ प्रणतो वाक्यमब्रवीत् । रावणेन प्रणिहितं तमवेहि विभीषणम् ।। १७
तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर । राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमिहागतः ॥ १८