पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८ श्रीमद्वाल्मीकिरामापणे बालकाण्डे

पितरं रोचयामास तदा दशरथ नृपम् । ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः ।।३१ स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ।। समुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषनम् । विरावणं साधुतपस्विकण्टकं तपस्विनामुद्धर तं भयावहम ॥३२ तमेव हत्वा सबलं सबान्धर्व विरावणं रावणमुग्रपौरुषम् । स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्रगुप्तं गतदोषकल्मषम् ॥३३

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां सहितायां बालकाण्डे रावणवधोपायो नाम पञ्चदशः सर्ग:

षोडशः सर्गः पायसोत्पत्तिः ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमः । जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ।।१ उपायः को वधे तस्य राक्षसाधिपतेः सुराः । यमहं तं समास्थाय निहन्यामृषिकण्टकम् ।।२ एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् । मानुषं रूपमास्थाय रावणं जहि संयुगे ।।३ स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दम । येन तुष्टोऽभवद्ब्रह्मा लोककृल्लोकपूर्वजः ॥४ संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः । नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ॥५ अवज्ञाताः पुरा तेन वरदाने हि मानवाः । एवं पितामहात्तस्माद्वरं प्राप्य स गर्वितः ।।६ उत्सादयति लोकांस्त्रीन स्त्रियश्चाप्यपकर्षति । तस्मात्तस्य वधो दृष्टो मानुषेभ्यः परंतप ।।७ इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान् । पितरं रोचयामास तदा दशरथं नृपम् ।।८ स चाप्यपुत्रो नृपतिस्तस्मिन काले महाद्युतिः । अयजन् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः॥९ स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम् । अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥ १० ततो वै यजमानस्य पावकादतुलप्रभम् । प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम् ।। ११ कृष्णं रकाम्बरधरं रक्तास्यं दुन्दुभिस्वनम् । स्निग्धाहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् ।। १२ शुभलक्षणसंपन्नं दिव्याभरणभूषितम । शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ।।१३ दिवाकरसमाकारं दीप्तानलशिखोपमम् । तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ।। १४ दिव्यपायससंपूर्णां पात्रीं पत्नीमिव प्रियाम् । प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव । १५ समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम् । प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ।। १६ ततः परं सदा राजा प्रत्युवाच कृताञ्जलिः । भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते ।।१७