पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८८
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


त्वमेव वध्यश्च सुदुर्मतिश्च स चापि वध्यो य इहानयत्त्वाम् ।
बालं दृढं साहसिकं च योऽद्य प्रावेशयन्मन्त्रकृतां समीपम् ।।११
मूढोऽप्रगल्मोऽविनयोपपन्नस्तीक्ष्णस्वभावोऽल्पमतिर्दुरात्मा ।
मूर्खस्त्वमत्यन्तसुदुर्मतिश्च त्वमिन्द्रजिब्लातया ब्रवीषि ।।१२
को ब्रह्मदण्डप्रतिमप्रकाशानर्चिष्मत: कालनिकाशरूपान् ।
सहेत बाणान् यमदण्डकल्पान् समीक्ष्य मुक्तान् युधि राघवेण ॥१३
धनानि रत्नानि विभूषणानि वासांसि दिव्यानि मणींश्च चित्रान् ।
सीतां च रामाय निवेद्य देवी वसेम राजन्निह वीतशोकाः ॥१४

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे इन्द्रजिद्विभीषणविवादो नाम पञ्चदशः सर्गः

षोडशः सर्गः

विभीषणाक्रोशः

सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् । अब्रवीत्परुषं वाक्यं रावणः कालचोदितः ।। १
वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा । न तु मित्रप्रवादेन संवसेच्छत्रुसेविता ।। २
जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस । हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा ॥ ३
प्रधानं साधकं वैद्यं धर्मशीलं च गक्षस । ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च ॥४
नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः । प्रच्छन्नहृदया घोराः ज्ञातयस्तु भयावहाः ।।५
श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने कचित् । पाशहस्तान्नरान् दृष्ट्वा शृणु तान् गदतो मम।।६
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः। घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः।।७
उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः । कृत्स्नाद्भयाजातिभयं सुकष्टं विदितं च नः ।।८
विद्यते गोषु संपन्नं विद्यते ब्राह्मणे दमः । विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् ॥ ९
ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः । ऐश्वर्येणाभिजानश्च रिपूणां मूर्ध्न्यवस्थितः ॥ १०
यथा पुष्करपर्णेषु पतितास्तोयबिन्दवः । न श्लेषमुपगच्छन्ति तथानार्येषु सौहृदम् ॥ ११
यथा मधुकरस्तर्षाद्रसं विन्दन्न विद्यते । तथा त्वमपि नत्रैव तथानार्येषु सौहृदम् ॥ १२
यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः । दूषयत्यात्मनो देहं तथानायेषु सौहृदम् ॥ १३
यथा शरदि मेघानां सिञ्चतामपि गर्जताम् । न भवत्यम्बुसंक्लेदस्तथानार्येषु सौहृदम् ॥ १४