पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८६
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


प्रहस्त राजा च महोदरश्च वं कुम्भकर्णश्च यदर्थजातम् ।
ब्रवीथ रामं प्रति तन्न शक्यं यथा गतिः खर्गमधर्मबुद्धेः ॥१०
वधस्तु रामस्य मया त्वया वा प्रहस्त सर्वैरपि राक्षसैर्वा ।
कथं भवेदर्थविशारदस्य महार्णवं तर्तुमिवाप्लवस्य ।।११
धर्मप्रधानस्य महारथस्य इक्ष्वाकुवंशप्रभवस्य राज्ञः ।
प्रहस्त देवाश्च तथाविधस्य कृत्येषु शक्तस्य भवन्ति मूढाः ।।१२
तीक्ष्णा न तावत्तव कङ्कपत्रा दुरासदा राघवविप्रमुक्ताः ।
भित्त्वा शरीरं प्रविशन्नि बाणाः प्रहस्त तेनैव विकत्थसे त्वम् ।।१३
न रावणो नातिबलस्त्रिशीर्षो न कुम्भकर्णोऽस्य सुतो निकुम्भः ।
न चेन्द्रजिद्दाशरथिं प्रसोढुं त्वं वा रणे शक्रसमं समर्थाः ॥१४
देवान्तको वापि नरान्तको वा तथातिकायोऽतिरथो महात्मा ।
अकम्पनश्चाद्रिसमानसार: म्थातु न शक्ता युधि राघवस्य ।।१५
अयं हि राजा व्यसनाभिभूतो मित्रैरमित्रप्रतिमैर्भवद्भिः ।
अन्वास्यते राक्षसनाशनाय तीक्ष्णः प्रकृत्या ह्यसमीक्ष्यकारी ।।१६
अनन्तभोगेन सहस्रमूर्ध्ना नागेन भीमेन महाबलेन ।
बलात्परिक्षिप्तमिमं भवन्तो राजानमुत्क्षिप्य विमोचयन्तु ॥१७
यावद्धि केशग्रहणात सुहृद्भिः समेत्य सर्वैः परिपूर्णकामैः ।
निगृह्य राजा परिरक्षितव्यो भूतैर्यथा भीमवलैगृहीतः ।।१८
सुवारिणा राघवसागरेण प्रच्छाद्यमानस्तरसा भवद्भिः ।
युक्तस्त्वयं तारयितुं समेत्य काकुत्स्थपातालमुखे पतन् सः ।।१९
इदं पुरस्यास्य सराक्षसस्य राज्ञश्व पथ्यं समुहृज्जनस्य ।
सम्यग्धि वाक्यं सततं ब्रवीमि नरेन्द्रपुत्राय ददाम पत्नीम् ॥२०