पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८५
चतुर्दशः सर्गः


न वासवेनापि सहस्रचक्षुषा युधास्मि शक्यो वरुणेन वा पुनः ।
मया त्वियं बाहुबलेन निर्जिता पुरी पुरा वैश्रवणेन पालिता ॥२१

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे महापार्श्ववचोऽभिनन्दनं नाम त्रयोदशः सर्गः

चतुर्दशः सर्गः

प्रहस्तविभीषणविवादः

निशाचरेन्द्रस्य निशम्य वाक्यं स कुम्भकर्णस्य च गर्जितानि ।
विभीषणो राक्षसराजमुख्यमुवाच वाक्यं हितमर्थयुक्तम् ।।१
वृतो हि बाह्वन्तरभोगराशिश्चिन्ताविषः सुस्मिततीक्ष्णदंष्ट्रः ।
पञ्चाङ्गुलीपञ्चशिरोऽतिकायः सीतामहाहिस्तव केन राजन् ।।२
यावन्न लङ्कां समभिद्रवन्ति वलीमुखाः पर्वतकूटमात्राः ।
दंष्ट्रायुधाश्चैव नखायुधाश्च प्रदीयतां दाशरथाय मैथिली ।।३
यावन्न गृह्णन्ति शिरांसि बाणा रामेरिता राक्षसपुंगवानाम् ।
वज्रोपमा वायुसमानवेगाः प्रदीयतां दाशरथाय मैथिली ॥
न कुम्भकर्णेन्द्रजितौ च राजंस्तथा महापार्श्वमहोदरौ वा ।
निकुम्भकुम्भौ च तथातिकायः स्थातुं न शक्ता युधि राघवस्य ।।५
जीवंस्तु रामस्य न मोक्ष्यसे त्वं गुप्तः सवित्राप्यथ का मरुद्भिः ।
न वासवस्याङ्कगतां न मृत्योर्न खं न पातालमनुप्रविष्टः ।।६
निशम्य वाक्यं तु विभीषणस्य ततः प्रहस्तो वचनं बभाषे ।
न नो भयं विद्म न दैवतेभ्यो न दानवेभ्यो ह्यथवा कुतश्चित् ॥७
न यक्षगन्धर्वमहोरगेभ्यो भयं नो संख्ये पतगोत्तमेभ्यः ।
कथं नु रामाद्भविता भयं नो नरेन्द्रपुत्रात्समरे कदाचित् ।।८
प्रहस्तवाक्यं त्वहितं निशम्य विभीषणो राजहितानुकाङ्क्षी ।
ततो महार्थे वचनं बभाषे धर्मार्थकामेषु निविष्टबुद्धिः ।।९