पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८४
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कार्याणि हितानि विज्वरः ।
मया तु रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ।।४०

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे कुम्भकर्णमतिर्नाम द्वादशः सर्ग:

त्रयोदशः सर्गः

महापार्श्ववचोऽभिनन्दनम्

रावणं कुद्धमाज्ञाय महापार्श्वो महाबलः । मुहूर्तमनुसंचिन्त्य प्राञ्जलिर्वाक्यमब्रवीत् ॥ १
यः खल्वपि वनं प्राप्य मृगव्यालसमाकुलम् । न पिबेन्मधु संप्राप्तं स नरो बालिशो भवेत् ॥ २
ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण । रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ।।३
बलात्कुक्कुटवृत्तेन वर्तस्व सुमहाबल । आक्रम्य सीतां वैदेही तथा भुड्क्ष्व रमस्व च ।।४
लब्धकामस्य ते पश्चादागमिप्यति यद्भयम् । प्राप्तमप्राप्तकालं वा सर्वं प्रतिसहिष्यसि ॥५
कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः। प्रतिषेधयितुं शक्तौ सवज्रमपि वज्रिणम् ॥६
उपप्रदानं सान्त्वं वा भेदं वा कुशलैः कृतम् । समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचय ॥७
इह प्राप्तान् वयं सर्वाञ्शत्रूंस्तव महाबल । वशे शस्त्रप्रपातेन करिष्यामो न संशयः ॥८
एवमुक्तस्तदा राजा महापार्श्वेन रावणः । तस्य संपूजयन् वाक्यमिदं वचनमब्रवीत् ।।९
महापार्श्व निबोध त्वं रहस्यं किंचिदात्मनः । चिरवृत्तं तदाख्यास्ये यदवाप्तं मया पुरा ।। १०
पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम् । चञ्चूर्यमाणामद्राक्षमाकाशेऽमिशिखानिव ॥ ११
सा प्रसह्य मया भुक्ता कृता विवसना नतः । स्वयंभूभवनं प्राप्ता लोलिता नलिनी यथा ॥ १२
तस्य तच्च तदा मन्ये ज्ञातमासीन्महात्मनः । अथ संकुपितो वेधा मामिदं वाक्यमब्रवीत् ॥१३
अद्यप्रभृति यामन्यां बलान्नारीं गमिष्यसि । तदा ने शतधा मूर्धा फलिष्यति न संशयः ॥ १४
इत्यहं तस्य शापम्य भीतः प्रसभमेव नाम्। नारोपये बलात्सीतां वैदेहीं शयने स्वके ॥ १५
सागरस्येव मे वेगो मारुतस्येव मे गतिः । नैतद्दाशरथिर्वेद ह्यासादयति तेन माम् ॥१६
यस्तु सिंहमिवासीनं सुप्तं गिरिगुहाशये । क्रुद्धं मृत्युमिवासीनं प्रबोधयितुमिच्छति ॥१७
न मत्तो निर्गतान् बाणान् द्विजिह्वानिव पन्नगान् । रामः पश्यति संग्रामे तेन मामभिगच्छति ॥१८
क्षिप्रं वज्रोपमैर्बाणैः शतधा कार्मुकच्युतैः । राममादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥ १९
तच्चास्य बलमादास्ये बलेन महता वृतः । उदयन् सविता काले नक्षत्राणामिव प्रभाम् ॥ २०