पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८३
द्वादशः सर्गः

सा तु संवत्सरं कालं मामयाचत भामिनी । प्रतीक्षमाणा भर्तारं राममायतलोचना ॥१९
तन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम् । श्रान्तोऽहं सततं कामाद्यातो हय इवाध्वनि ॥२०
कथं सागरमक्षोभ्यं तरिष्यन्ति वनौकसः । बहुसत्त्वसमाकीर्णं तौ वा दशरथात्मजौ ॥ २१
अथवा कपिनैकेन कृतं नः कदनं महत् । दुर्जेयाः कार्यगतयो ब्रूत यस्य यथामति ॥ २२
मानुषान्मे भयं नास्ति तथापि तु विमृश्यताम् । तदा देवासुरे युद्धे युप्माभिः सहितोऽजयम् ॥
ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् । परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ ।। २४
सीतायाः पदवीं प्राप्तौ संप्राप्तौ वरुणालयम् । अदेया च यथा सीता वध्यौ दशरथात्मजौ।। २५
भवद्भिर्मन्त्र्यतां मन्त्रः सुनीतिश्चाभिधीयताम् । न हि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित् ।।
सागरं वानरैस्तीर्त्वा निश्चयेन जयो मम । तस्य कामपरीतस्य निशम्य परिदेवितम् ।। २७
कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत् ॥

यदा तु रामस्य सलक्ष्मणम्य प्रसह्य सीता खलु सा इहाहृता ।
सकृत्समीक्ष्यैव सुनिश्चितं तदा भजेत चित्तं यमुनेव यामुनम् ॥२८


सर्वमेतन्महाराज कृतमप्रतिमं तव । विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥ २९
न्यायेन राजा कार्याणि यः करोति दशानन । न स संतप्यते पश्चान्निश्चितार्थमतिर्नृपः ॥ ३०
अनुपायेन कर्माणि विपरीनानि यानि च । क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ३१
यः पश्चात्पूर्वकार्याणि कुरुते बुद्धिमोहितः। पूर्वं चोत्तरकार्याणि न स वेद नयानयौ ॥ ३२
चपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम् । छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः॥ ३३
त्वयेदं महदारब्धं कार्यमप्रतिचिन्तितम् । दिष्ट्या त्वां नावधीद्रामो विपमिश्रमिवामिषम्।। ३४
तस्मात्त्वया समारब्धं कर्म ह्यप्रतिमं परैः । अहं समीकरिष्यामि हत्वा शत्रूस्तवानघ । ३५
यदि शक्रविवस्वन्तौ यदि पावकमारुतौ। तावहं योधयिष्यामि कुबेरवरुणावपि ॥ ३६
गिरिमात्रशरीरस्य शितशूलधरस्य च । नर्दतस्तीक्ष्णदंष्ट्रस्य बिभियाद्वै पुग्न्दरः ।।३७
पुनर्मां स द्वितीयेन शरेण निहनिष्यति । ततोऽहं तस्य पास्यामि रुधिरं काममाश्वस ॥ ३८

वधेन वै दाशरथेः सुखावहं जयं तवाहर्तुमहं यतिष्ये ।
हत्वा च रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ॥३९