पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७३
पञ्चमः सर्गः
           पञ्चमः सर्गः             ६७३

मधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः । वेलावनमुपागम्य ततस्ते हरिपुंगवाः ॥ १०८ विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः । तेषां निविशमानानां सैन्यसन्नाह निःस्वनः।।१०९ अन्तर्घाय महानादमर्णवस्य प्रशुश्रुवे । सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता ।। ११० त्रिधा निविष्टा महती रामस्यार्थपराभवत् । सा महार्णवमासाद्य हृष्टा वानरवाहिनी ॥ १११ वायुवेगसमाधूतं पश्यमाना महार्णवम् । दूरपारमसंबाधं रक्षोगणनिषेवितम् ।। ११२ पश्यन्तो वरुणावासं विषेदुर्हरियूथपाः । चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये ॥ ११३ हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः । चन्द्रोदयेसमुद्भूतं प्रतिचन्द्रसमाकुलम् ॥ ११४ पिनष्टीव तरङ्गात्रैरर्णवः फेनचन्दनम् । तदादाये करैरिन्दुलिम्पतीव दिगङ्गनाः ॥ ११५ चण्डानिलमहाग्राहै: कीर्णं तिमितिमिङ्गिलैः । दीप्तभोगैरिवाकीर्णं भुजङ्गैर्भुजगालयम् ॥ ११६ अवगाढं महासत्त्वैर्नानाशैलसमाकुलम् । सुदुर्गं दुर्गमार्गं तमगाधमसुरालयम् ॥ ११७ मकरैर्नागभोगैश्च विगाढा वातलोलिताः। उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ।।११८ अग्निचूर्णमिवाविद्धं भास्वराम्बु महोरगम् । सुरारिविषयं घोरं पातालविषमं सदा ॥ सागरं चाम्बरप्रख्यमम्बरं सागरोपमम् । सागरं चाम्बरं चेति निर्विशेषमदृश्यत ।१२० संपृक्तं नभसाप्यम्भः संपृक्तं च नभोऽम्भसा । तादृग्रूपे स्म दृश्येते तारारत्नसमाकुले ॥ १२१ समुत्पतितमेघस्य वीचिमालाकुलस्य च । विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च ।। १२२ अन्योन्यमाहताः सक्ताः सस्वनुर्भीमनिःस्वनाः। ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे॥१२३ रत्नौघजलसन्नादं विषक्तमिव वायुना । उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ॥१२४ ददृशुस्ते महोत्साहा वाताहतमपां पतिम् । अनिलोद्धतमाकाशे प्रवल्गन्तमियोर्मिभिः ॥ १२५ ततो विस्मयमापन्ना ददृशुर्हरयस्तदा । भ्रन्तोर्मिजलसन्नादं प्रलोलमिव सागरम् ।। १२६ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे रामाभिषेणनं नाम चतुर्थः सर्गः पञ्चमः सर्गः रामविप्रलम्भः सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता । सागरस्योत्तरे तीरे साधु सेना निवेशिता ।। १ मैन्दश्च द्विविदश्चोभौ तत्र वानरपुंगवौ। विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम् ।। २