पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे}}


गिरिप्रस्थेषु रम्येषु सर्वतः संप्रपुष्पिताः। केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः ।। ८० माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः । चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा । स्फूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः। चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः ॥ मुचुलिन्दार्जुनाश्चैव शिंशपाः कुटजास्तथा । धवाः शल्मलयश्चैव रक्ताः कुरबकास्तथा । ८३ हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा । नीलाशोकाश्च वरणा अङ्कोलाः पद्मकास्तथा ॥ प्लवमानैः प्लवङ्गैस्तु सर्वे पर्याकुलीकृताः । वाप्यस्तस्मिन् गिरौ शीताः पल्वलानि तथैव च ।।८५ चक्रवाकानुचरिताः कारण्डवनिषेविताः । प्लवैः क्रौञ्चैश्च संकीर्णा वराहमृगसेविताः ।। ८६ ऋक्षैस्तरक्षुभिः सिंहै: शार्दूलैश्च भयावहैः । व्यालैश्च बहुभिर्भीमैः सेव्यमानः समन्ततः ॥ ८७ पद्मैः सौगन्धिकैः फुल्लैः कुमुदैश्चोत्पलैस्तथा । वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः॥ ८८ तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा । स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः ।। अन्योन्यं प्लावयन्ति म्म शैलमारुह्य वानराः । फलान्यमृतगन्धीनि मूलानि कुसुमानि च ॥ १.० बभञ्जुर्वानरास्तत्र पादपानां मदोत्कटाः । द्रोणमात्रप्रमाणानि लम्बमानानि वानराः ।। ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः । पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः ॥ ९२ विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः । वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुर्पिताः ॥ ०३ अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्त्यपि चापरे । बभूव वसुधा तैस्तु संपूर्णा हरियूथपैः ।। २१ यथा कलमकेदारैः पक्वैरिव वसुन्धरा । महेन्द्रमथ संप्राप्य रामो राजीवलोचनः ॥ अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् । ततः शिम्वरमारुह्य रामो दशरथात्मजः ॥ कूर्ममीनसमाकीर्णमपश्यत्सलिलाकरम् । ते सह्यं समतिक्रम्य मलयं च महागिरिम् ॥ ९७ आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम् । अवरुध्य जगामाशु वेलावचनमुत्तमम् ॥ रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः । अथ धौतोपलतलां तोयौघैः सहसोत्थितैः ।। २९ वेलामासाद्य विपुलां रामो वचनमब्रवीत् । एते वयमनुप्राप्ताः सुग्रीव वरुणालयम् ॥ १०० इहेदानीं विचिन्ता सा या नः पूर्व समुत्थिता । अतः परमतीरोऽयं सागरः सरितां पतिः ॥ न चायमनुपायेन शक्यस्तरितुमर्णवः । तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिति ॥ १०२ यथेदं वानरबलं परं पारमवाप्नुयात् । इतीव स महाबाहुः सीताहरणकर्शिनः ।। १०३ रामः सागरमासाद्य वासमाज्ञापयत्तदा । सर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गव ॥ १०४ संप्राप्तो मन्त्रकालो नः सागरस्यास्य लङ्घने। स्वां स्वां सेना समुत्सृज्य मा च कश्चित्कुतो व्रजेत् ॥ गच्छन्तु वानराः शूराः ज्ञेयं छन्नं भयं च नः । रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः ॥ सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते । विरराज समीपस्थं सागरस्य च तद्बलम् ।।