पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७१
चतुर्थः सर्गः

चतुर्थः सर्गः ६७१

प्रवान्त्यभ्यधिकं गन्धान् यथर्तुकुसुमा द्रुमाः। व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो ॥५५ देवानामिव सैन्यानि सङ्ग्रामे तारकामये । एवमार्य समीक्ष्यैतान् प्रीतो भवितुमर्हसि ॥ ५६ इति भ्रातरमश्वास्य हृष्टः सौमित्रिरब्रवीत् । अथावृत्य महीं कृत्स्नां जगाम महती चमूः ।। ५७ ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता । कराग्रैश्चरणाग्रैश्च वानरैरुत्थितं रजः ।। भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् । सपर्वतवनाकाशां दक्षिणां हरिवाहिनी ।। छादयन्ती ययौ भीमा द्यामिवाम्बुदसन्ततिः । उत्तरन्त्यां च सेनायां सततं बहुयोजनम् ॥ ६० नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् । सरांसि विमलाम्भांसि द्रुमाकीर्णाश्च पर्वतान् ॥ ६१ समान् भूमिप्रदेशांश्च वनानि फलवन्ति च । मध्येन च समन्ताञ्च तिर्यक्चाधश्च साविशत् ॥६२ समावृत्य मही कृत्स्नां जगाम महती चमूः। ते हृष्टमनसः सर्वे जग्मुर्मारुतरंहसः ॥ ६३ हरयो राघवस्यार्थे समारोपितविक्रमाः । हर्षवीर्यबलोद्रेकान् दर्शयन्तः परस्परम् ।। यौवनोत्सेकजान् दर्पान् विविधांश्चक्रुरध्वनि । तत्र केचिद्द्रुतं जम्मुरुपेतुश्च तथापरे ॥ ६५ केचित्किलकिलां चक्रुर्वानरा वनगोचराः । प्रास्फोटयंश्च पुच्छानि संनिजघ्नुः पदान्यपि ।। ६६ भुजान् विक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे । आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः ।। महानादान् विमुञ्चन्ति क्ष्वेलामन्ये प्रचक्रिरे । ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः ।। जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः । शतैः शतसहस्रैश्च कोटीभिश्च सहस्रशः ॥६९ वानराणां सुघोगणां यूथैः परिवृता मही। सा स्म याति दिवारात्रं महती हरिवाहिनी ॥ ७० हृष्टा प्रमुदिता सेना सुग्रीवेणाभिरक्षिता। वानरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दिनः ।। ७१ मुमोक्षयिषवः सीतां मुहूर्त कापि नासत। ततः पादपसंबाधं नानामृगसमायुतम् ॥ सह्यपर्वतमासेदुर्मलयं च महीधरम् । काननानि विचित्राणि नदीप्रस्रवणानि च ॥ पश्यन्नभिययौ राम: सह्यस्य मलयस्य च । चम्पकांस्तिलकांश्चूतानशोकान् सिन्धुवारकान् ॥७४ करवीरांश्च तिनिशान् भञ्जन्ति स्म प्लवङ्गमाः । अङ्कोलांश्च करञ्जांश्च प्लक्षन्यग्रोधतिन्दुकान् ।।७५ जम्बूकामलकान्नीपान् भञ्जन्ति म्म प्लवङ्गमा। प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ॥ ७६ वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान् । मारुतः सुखसंस्पर्शो वाति चन्दनशीतलः ॥ षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु । अधिकं शैलराजस्तु धातुभिः सुविभूषितः ।। धातुभ्यः प्रसृतो रेणुर्वायुवेगविघट्टितः। सुमहद्वानरानीकं छादयामास सर्वतः ।।