पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६ श्रीमद्वाल्मीकिरामायणे बालकाण्डे

उद्गात्रे च तथोदीचीं दक्षिणैवा विनिर्मिता । अश्वमेधे महायज्ञे स्वयंभुविहिते पुरा ।।४४ क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः । ऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः ॥ ४५ ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकल्मषम् । भवानेव महीं कृत्स्नामेको रक्षितुमईति ।।४६ न भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने । रताः स्वाध्यापकरणे वयं नित्यं हि भूमिप ॥ ४७ निष्कयं किंचिदेवेह प्रयच्छतु भवानिति । मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् ।। ४८ तत् प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् । एवमुक्तो नरपतिब्राह्मणैर्वेदपारर्गैः॥४९ गवां शतसहस्राणि दश तेभ्यो ददौ नृपः । दश कोटीः सुवर्णस्य रजतस्य चतुर्गुणम् ।।५० ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु । ऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते ॥५१ ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः । सुप्रीतमनसः सर्वे प्रत्यू चुर्मुदिता भृशम् ।।५२ ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः । जाम्बूनदं कोटिसंख्य ब्राह्मणेभ्यो ददौ नृपः ।।५३ दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम् । कस्मैचिद्याचमानाय ददौ राघवनन्दनः ।।५४ ततः प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सलः । प्रणाममकरोत्तेषां हर्षपर्याकुलेक्षण: ।।५५ तस्याशिषोऽथ विधिवद्ब्राह्मणै: समुदाहृताः । उदारस्य नृवीरस्य धरण्यां प्रणतस्य च ।। ५६ ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् । पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः ।।५७ ततोऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा । कुलस्य वर्धनं त्वं तु वर्तुमर्हसि सुव्रत ।।५८ तथेति च स राजानमुवाच द्विजसत्तमः । भविष्यन्ति सुता राजश्चत्वाररते कुलोद्वहाः ।।५९ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे अश्वमेधो नाम चतुर्दशः सर्गः


पञ्चदशः सर्गः रावणवधोपायः मेधावी तु ततो ध्यात्वा स किंचिदिदमुत्तरम् । लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपममब्रवीन् ।।१ इष्टिं तेऽह करिष्यामि पुत्रीयां पुत्रकारणात् । अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः॥२ ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् । जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा ।।३ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥४