पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६२ श्रीमद्वाल्मीकिरामायणे मुन्दरकाण्डे

वायसेन च तेनैवं सततं बाध्यमानया । बोधितः किल देव्या त्वं सुखसुप्तः परंतप ।।
तां तु दृष्टा महाबाहो दारितां च स्तनान्तरे । आशीविष इव क्रुद्धो निःश्वसनभ्यभाषथाः ॥
नखाः केन ते भीरु दारितं तु स्तनान्तरम् । कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ।।
निरीक्षमाणः सहसा वायस समवैक्षथाः। नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ।।
सुतः किल स शक्रस्य वायसः पततां वरः । धरान्तरचरः शीघ्र पवनस्य गतौ समः ॥ १०
ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः । वायसे त्वं कृथाः क्रूरां मति मतिमतां वर ।। ११
स दर्भ संस्तराद्गृह्य ब्रह्मास्त्रेण ह्ययोजयः । स दीप्त इव कालमिर्जज्वालाभिमुखः खगम् ॥ १२
क्षिप्तवास्त्वं प्रदीप्तं हि दर्भ तं वायसं प्रति । ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह ॥ १३
स पित्रा च परित्यक्तः सुरैश्च समहर्षि भिः । त्रील्लोकान् संपरिक्रम्य वातारं नाधिगच्छति ॥ १४
पुनरेवागतस्त्रस्तस्त्वत्सकाशमरिंदम । स तं निपतितं भूमौ शरण्यः शरणागतम ॥
वाईमपि काकुत्स्थ कृपया पर्यपालयः । मोघम न शक्यं तु कर्तुमित्येव राघव ॥ १६
भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् । राम त्वां स नमस्कृत्य राशे दशरथाय च ।।
विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम् । एवमलविदां श्रेष्ठः सत्त्ववाशीलवानपि ॥ १८
किमर्थमा रक्षःसु न योजयति राघवः । न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ॥ १९
न च सर्वे रणे शक्ता राम प्रति समासितुम् । तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि संभ्रमः ॥२०
क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः । भातुरादेशमात्राय लक्ष्मणो वा परंतपः ॥ २१
स किमर्थ नरवरो न मां रक्षति राघवः । शक्तौ तौ पुरुषव्याघ्रौ वाय्वमिसमतेजसौ ॥ २२
सुराणामपि दुर्धर्षों किमयं मामुपेक्षतः । ममैव दुष्कृतं किंचिन्महदरित न संशयः ।। २३
समर्थावपि तो यन्मां नावक्षेते परंतपौ । वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् ॥ २४
पुनरप्यहमायर्या सामिदं वचनमब्रवम् । त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ॥
रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते । कथंचिद्भवती दृष्टा न कालः परिशोधितुम् ॥ २६
इमं मुहर्त दुःखानामन्तं द्रक्ष्यसि भामिनि । तावुभौ नरशार्दूलौ राजपुत्रावनिन्दितौ ॥
त्वदर्शनकृतोत्साही लवां भस्मीकरिष्यतः । हत्वा च समरे रौद्र रावणं सहबान्धवम् ॥
राघवस्त्वां वरारोहे स्वां पुरी नयिता ध्रुवम् । यत्तु रामो विजानीयादभिमानमनिन्दिते ॥ २९
प्रीतिसंजननं तस्य प्रदातुं त्वमिहाईसि । साभिवीक्ष्य दिशः सर्वा वेण्युद्वथनमुत्तमम् ॥ ३०
मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल । प्रतिगृह्य मणिं दिव्यं तव हेतो रघूवाह ॥ ३१
शिरसा तां प्रणम्यामिहमागमने त्वरे । गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ।। ३२
विवर्धमानं च हि मामुवाच जनकात्मजा । अश्रुपूर्णमुखी दीना बाष्पसंदिग्धभाषिणी ॥ ३३