पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्चषष्टितमः सर्गः

अङ्गदे बननुप्राप्ते सुग्रीवो वानराधिपः । उवाच शोकोपहतं रामं कमललोचनम् ॥
समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः । नागन्तुमिह शक्यं तैरतीते समये हि नः ।।
न मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते । युवराजो महाबाहुः प्लघतां अवरोऽङ्गादः ।।
यथप्यकृतकृत्यानामीदृशः स्यादुपक्रमः । भवेत् स दीनवदनो भ्रान्तविप्लुतमानसः ।।
पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम् । न मे मधुवनं हन्याददृष्टः पूवगेश्वरः ।।
कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत । दृष्टा देवी न संदेहो न चान्येन हनूमता ॥
न ह्यन्यः कर्मणो हेतुः साधनेऽस्य हनूमतः । हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम ।
व्यवसायश्च वीर्य च सूर्ये तेज इव ध्रुवम । जाम्बवान् यत्र नेता स्यादङ्गदश्च बलेश्वरः ॥
हनुमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा । मा भूश्चिन्तासमायुक्तः संप्रत्यमितविक्रम' ।
ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे । हनुमत्कर्मदृप्तानां नर्दतां काननौकसाम् ॥
किष्किन्धामुपयातानां सिद्धिं कथयतामिव । ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः ।।
आयताञ्चितलाङ्गलः सोऽभवद्धृष्टमानसः । आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्गिणः ॥
अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् । तेऽङ्गादप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः ॥
निपेतुर्हरिराजस्य समीपे राघवस्य च । हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः ॥
नियतामक्षतां देवीं राघवाय न्यवेदयत् । निश्चितार्थस्ततस्तरिमन् सुप्रीवः पवनात्मजे ॥
लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत । प्रीत्या च रममाणोऽथ राधवः परवीरहा ॥
बहुमानेन महता हनुमन्तमवैक्षत ।।

इत्यार्प श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् सुन्दरकाण्डे हनुमदाद्यागमनं नाम चतुःषष्टितमः सर्ग: पञ्चषष्टितमः सर्गः चूडामणिप्रदानम्

ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् । प्रणम्य शिरसा राम लक्ष्मणं च महाबलम्
युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च । प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ॥
रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् । रामे समनुरागं च यश्चायं समयः कृतः ।।
एतदाख्यान्ति ते सर्वे हरयो रामसंनिधौ । वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ॥