पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५८ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे चतुःषष्टितमः सर्गः हनूमदाबागमनम्

सुप्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः । राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ।।
स प्रणम्य च सुप्रीवं राघौ च महाबलौ । वानरैः सहितः शरैर्दिवमेवोत्पपात ह॥
स यथैवागतः पूर्व तयैव त्वरित गतः । निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह॥
स प्रविष्टो मधुवन ददर्श हरियूथपान् । विमदानुत्थितान् सर्वान् मेहमानान् मधूदकम् ।।
स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् । उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ।।
सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः । अज्ञानादक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः।। ६
युवराजस्त्वमीशश्च वनस्थास्य महाबल । मौात् पूर्व कृतो दोषस्तं भवान् क्षन्तुमर्हति ।।
यथैव हि पिता तेऽभूत् पूर्व हरिगणेश्वरः । तथा त्वमपि सुप्रीवो नान्यस्तु हरिसत्तमै ॥
भाख्यातं हि मया गत्वा पितृव्यस्य तवानघ । इहोपयानं सर्वेषामेतेषां वनचारिणाम् ॥ ९
सत्ववागमनं श्रुत्वा सहेभिहरियूथफैः । प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् ।। १०
प्रष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः । शीघ्र प्रेषय सर्वास्तानिति होवाच पार्थिवः ।। ११
श्रुत्वा दधिमुखस्यैतद्वचनं श्लक्ष्णमदः । अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः । १२
शके श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः । तत् क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः ।। १३
पीत्वा मधु यथाकाम विश्रान्ता वनचारिणः । किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ।।
सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः । तथास्मि'कर्ता कर्तव्ये भवद्भिः परवानहम् ॥ १५
नामापयितुमीशोऽहं युवराजोऽस्मि यद्यपि । अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ।। १६
झुवतश्चानन्दस्यैवं श्रुत्वा वचनमव्ययम् । प्रहष्टमनसो वाक्यमिदमूचुर्वनौकसः ।।
एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभः । ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते ॥ १८
तब चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् । संनतिर्हि तवाल्याति भविष्यच्छुभयोग्यताम् ।। १९
सर्वे क्यमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः । स यत्र हरिवीराणां सुग्रीवः पतिरन्ययः ।।
त्वया मनुक्तैईरिभिर्नैव शक्यं पदात् पदम् । कचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ।। २१
एवं तु वदतां तेषामादः प्रत्यभाषत । बाद गच्छाम इत्युक्त्वा उत्पपात महीतलात् ।। २२
उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः । कृत्वाकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः॥ २३
तेऽम्परं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः । विनदन्तो महानादं धना वातेरिता यथा ॥ २४