पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिषष्टितमः सर्गः ६५७

एवं विज्ञाप्यमानं तु सुग्रीवं वानरर्षभम् । अपृच्छत्तं महापासो लक्ष्मणः परवीरहा ।।
किमयं वानरो राजन् वनपैः प्रत्युपस्थितः । कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ॥
पमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना । लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः।
आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः । अङ्गदप्रमुखी रैर्भक्षितं मधु वानरैः ।।
विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः । नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः ।।
आगतैश्च प्रमथितं यथा मधुवनं हि तैः । धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ।
वनं यदभिपन्नं तैः साधितं कर्म वानरैः । दृष्टा देवी न संदेहो न चान्येन हनूमता ॥
न हन्यः साधने हेतुः कर्मणोऽस्य हनूमतः । कार्यसिद्धिर्मतिश्चैव तस्मिन् वानरपुङ्गवे ॥
व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् । जाम्बवान् यत्र नेता स्यादनादश्च महाबलः ।।
हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा । अङ्गदप्रमुखैर्वी रैर्हतं मधुवनं किल ।
वारयन्तश्च सहितास्तथा जानुभिराहताः । एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह ।।
नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः । दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ॥
अभिगम्य तथा सर्वे पिबन्ति मधु वानराः । न चाप्यदृष्ट्रा वैदेहीं विश्रुताः पुरुषर्षभ ।
वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः । ततः प्रष्टो धर्मात्मा लक्ष्मणः सहराघवः॥
श्रुत्वा कर्णसुखां वाणी सुप्रीववदनाच्च्युताम् । प्राध्यत भृशं रामो लक्ष्मणश्च महाबलः ।।
श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च । वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ।।
प्रीतोऽस्मि सोऽहं यद्भुक्तं वनं तैः कृतकर्मभिः । मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ।।
इच्छामि शीघ्र हनुमत्प्रधानाशाखामृगांस्तान् मृगराजदर्पान् ।
द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ।।
प्रीतिस्फीताक्षी संप्रष्टौ कुमारौ दृष्ट्वा सिद्धार्थों वानराणां च राजा।
अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा बाझोरासमा सोऽतिमात्रं ननन्द ।।

इत्याः श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् सुन्दरकाण्डे सुग्रीवहषों नाम त्रिषष्टितमः सर्गः