पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विषष्टितमः सर्गः ६५५

अहमावारयिष्यामि युष्माकं परिपन्थिनः । श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः ।
प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु । अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ।।
भकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् । अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः ॥
साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् । पूजयित्वाकवं सर्वे वानरा वानरर्षभम् ।।
जग्मुर्मधुवनं यत्र नदीवेगा इव द्रुतम् । ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः ॥
अतिसर्गाच पटवो दृष्टा श्रुत्वा च मैथिलीम् । पपुः सर्वे मधु तदा रसवत्फलमाद्दुः ।।
उत्पत्य च ततः सर्वे वनपालान् समागतान् । साडयन्ति स्म शतशः सक्तान् मधुवने तदा ॥
मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते । पिबन्ति सहिताः सर्वे निम्नन्ति स्म तथापरे । ९
केचित् पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः । मधूच्छिष्टेन केचिञ्च जघ्नुरन्योन्यमुत्कटाः॥ १०
अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः । अत्यर्थ च मदग्लानाः पर्णान्यास्तीर्य शेरते ॥ ११
उन्मत्तभूताःप्लवगा मधुमत्ताश्च हृष्टवत् । क्षिपन्ति च तदान्योन्य खलन्ति च तथापरे ।।
१२
केचित् क्ष्वेलां प्रकुर्वन्ति केचित् कूजन्ति दृष्टवत् । हरयो मधुना मत्ताः केचित् सुप्ता महीतले ॥१३
कृत्वा किंचिद्धसन्त्यन्ये केचित् कुर्वन्ति चेतरत् । कृत्वा किंचिद्वदन्त्यन्ये केचिद्रुध्यन्ति चेतरत्॥१४
येऽष्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु । तेऽपि तैर्वानरैर्भीमः प्रतिषिद्धा दिशो गताः ॥ १५
जानुभिस्तु प्रकृष्टाश्च देवमार्ग च दर्शिताः । अब्रुवन् परमोद्विमा गत्वा दधिमुख वचः ॥
१६
हनूमता दत्तवरैर्हतं मधुवनं बलात् । वयं च जानुभिः कृष्टा देवमार्ग च दर्शिताः ॥
ततो दधिमुखः क्रुद्धो वनपस्तत्र वानर । हतं मधुवनं श्रुत्वा सान्त्वयामास तान हरीन् ।।
इहागच्छत गच्छामो वानरान् बलदर्पितान् । बलेन वारयिष्यामो मधु भक्षयतो वयम् ॥ १९
श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः । पुनर्वीरा मधुवनं तेनैव सहिता ययुः ॥
मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम् । समभ्यधावद्वेगेन ते च सर्वे प्लवङ्गमाः ॥
ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः । गृहीत्वाभ्यगमन क्रुद्धा यत्र ते कपिकुञ्जराः ।।
ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् । त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः ॥ २३
वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान् । अभ्यक्रामस्ततो वीराः पालास्तत्र सहस्रशः ॥ २४
अथ दृष्टा दधिमुख क्रुद्धं वानरपुंगवाः । अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा ।।
तं सवृक्षं महाबाहुमापतन्तं महाबलम् । आर्थकं प्राहरत्तत्र बाहुभ्यां कुपितोऽजदः॥ २६
मदान्धश्च न वेदैनमार्यकोऽयं ममेति सः। अथैनं निष्पिपेषाशु वेगवद्वसुधातले ॥
स भनबाहरभुजो विड्डलः शोणितोक्षितः । मुमोह सहसा वीरो मुहूर्त कपिकुञ्जरः ॥
स समाश्वस्य सहसा संकुलो राजमातुलः । वानरान् वारयामास दण्डेन मधुमोहितान् ।। २९
स कथंचिद्विमुफस्तैर्वानरैर्वानरर्षभः । उवाचैकान्तमाश्रित्य भृत्यान् स्वान् समुपागतान् ।। ३०
एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः । सुग्रीवो विपुलपीकः सह रामेण तिष्ठति ॥