पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५१ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे

गायन्ति केचित् प्रणमन्ति केचिन्नृत्यन्ति केचित् प्रहसन्ति केचित् ।
पतन्ति केचिद्विचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित् ।।
परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते ।
परस्परं केचिदुपावन्ते परस्परं केचिदुपारमन्ते ।।
द्रुमाद्रुमं केचिदभिद्रवन्ति क्षिती नगापानिपतन्ति केचित् ।
महीतलात् केचिदुदीर्णवेग महाद्रुमाप्राण्यभिसंपतन्ति ।।
गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति ।
रुदन्तमन्यः प्रणदन्नुपैति नदन्तमन्यः प्रणुदन्नुपैति ।।
समाकुलं तत् कपिसैन्यमासीन्मधुप्रपानोत्कटसत्त्वचेष्टम् ।
न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः ।।
ततो वनं तैः परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् ।
समीक्ष्य कोपाइधिवक्त्रनामा निवारयामास कपिः कपीस्तान् ।
स तैः प्रवृद्धैः परिभय॑मानो वनस्य गोप्ता हरिवीरवृद्धः ।
चकार भूयो मतिमुप्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ।।
उवाच कांश्चित् परुषाणि धृष्टमसक्तमन्यांश्च तलैजधान ।
समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कांश्चित् ॥
स तैर्मदात् संपरिवार्य वाक्यैर्बलाच तेन प्रतिवार्यमाणैः ।
प्रेधर्षितस्त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ॥
नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समापयन्तः ।
मदात् कपि तं कपयः सममा महावनं निर्विषयं च चक्रुः ।।

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकान्ये चतुर्विशतिसहसिकायां संहितायाम् सुन्दरकाण्डे मधुवनप्रवेशो नाम एकषष्टितमः सर्गः द्विषष्टितमः सर्गः

दधिमुखखिलीकारः
वानुवाच हरिश्रेष्ो हनुमान् वानरर्षभः । अध्यप्रमनसो यूयं मधु सेवत वानराः॥