पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५२ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे

राक्षसीभिः परिवृता शोकसंतापर्शिता । मेधलेखापरिवृता चन्द्रलेखेव निष्प्रभा ।।
अचिन्तयन्ती वैदेही रावणं बलदर्पितम । पतित्रता च सुश्रोणी अवष्टब्धा च जानकी ।।
अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा । अनन्यचित्ता रामे च पौलोमीव पुरंदरे ।
तदेकवासःसंवीता रजोवस्ता तथैव च । शोकमंतापदीनाङ्गी सीता भर्तृहिते रता ।।
सा मया राक्षसीमध्ये तळमाना मुहुर्मुहुः । राक्षसीभिर्विरूपाभिदृष्टा हि प्रमदावने ॥
एकवेणीधरा दीना भर्तृचिन्तापरायणा । अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया । कथंचिन्मृगशाबाक्षी विश्वासमुपपादिता ॥
ततः संभाषिता चैव सर्वमयं च दर्शिता । रामसुग्रीवसल्यं च श्रुत्वा प्रीतिमुपागता ॥
नियतः समुदाचरो भक्तिभर्तरि चोत्तमा । यन्न हन्ति दशग्रीवं स महात्मा दशाननः' ।।
निमित्तमात्रं रामस्तु वधे तस्य भविष्यति । सा प्रकृत्यैव तन्वङ्गी तद्वियोगान कर्शिता ॥
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता । एवमास्ते महाभागा सीता शोकपरायणा ।।
यदत्र प्रतिकर्तव्यं तत् सर्वमुपपाद्यताम् ।।

इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायाम् मुन्दरकाण्डे अगन्तरकार्यप्ररोचनं नाम एकोनषष्टितमः सर्गः षष्टितमः सर्गः अङ्गदजाम्बवत्संवादः

तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत । अयुक्तं तु विना देवी रश्वद्भिश्च वानराः ॥
समीपं गन्तुमस्माभी राघवस्य महात्मनः । दृष्टा देवी न चानीता इति तत्र निवेदनम ।।
अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः । न हि नः प्लवने कश्चिन्नापि कश्चिन् पराक्रमे ॥
तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः । तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ॥
किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम । रामलक्ष्मणयोर्मध्ये न्यस्याम जनकात्मजाम् ।।