पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ श्रीमद्वाम्मीकिरामायणे बालकाण्डे

चतुर्दशः सर्गः अश्वमेधः अथ संवत्सरे पूर्णे तस्मिन प्राप्ते तुरंगमे । सरय्याश्चोत्तरे तीरे राझो यज्ञोऽभ्यवर्तत ॥१ ऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः। अश्वमेधे महायज्ञे राज्ञस्तस्य महात्मनः ।।२ कर्म कुर्वन्ति विधिवद्याजका वेदपारगाः । यथाविधि यथान्यायं परिकामन्ति शास्त्रतः ।।३ प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः । चक्रुश्च विधिवत् सर्वमधिकं कर्म शास्त्रतः ॥४ अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि । प्रातःसवनपूर्वाणि कर्माणि मुनिपुंगवाः ।।५ ऐन्द्रश्च विधिवहत्तो राजा चाभिपुतोऽनघः । माध्यंदिनं च सवनं प्रावर्तत यथाक्रमम् ॥६ तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः । चक्रुस्ते शास्त्रतो दृष्ट्वा कर्माणि मुनिपुंगवाः ।।७ आह्वयांचक्रिरे तत्र शक्रादीन् विबुधोत्तमान् । ऋश्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः ।।८ गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हन: । होतारो ददुरावाह्य हविर्भागान् दिवौकसाम॥ ९ न चाहुतमभूत्तत्र स्खलितं वापि किंचन । दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे ॥ १० न तेष्वहःसु श्रान्तो वा क्षुधितो वापि दृश्यते । नाविद्वान ब्राह्मणस्तत्र नाशतानुचरस्तथा ॥ ११ ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते । तापसा भुञ्जने चापि श्रमणा भुञ्जते तथा ।।१२ वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च । अनिशं भुञ्जमानानां न तृप्तिरुपजायते ॥१३ दीयतां दीयतामन्नं वासांसि विविधानि च । इति संचोदितास्तत्र तथा चक्रुरनेकश: ।।१४ अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः। दिवस दिवसे नत्र सिद्धम्य विधिवत्तदा ।।१५ नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा । अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः॥ १६ अन्नं हि विधिवत् स्वादु प्रशंसन्ति द्विजर्षभाः। अहो तृप्ता: स्म भद्रं त इति शुश्राव राघवः ।। १७ स्वलंकृताश्च पुरुषा ब्राह्मणान पर्यवेषयन् । उपासते च तानन्ये सुमृष्टमणिकुण्डलाः ।।१८