पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४८ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे

संभाषणार्थ च मया जानक्याश्चिन्तितो विधिः । इक्ष्वाकूणां हि वंशस्तु ततो मम पुरस्कृतः ।। ९२
श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् । प्रत्यभापत मां देवी बाप्पैः पिहितलोचना ॥
९३
करत्वं केन कथं चेह प्राप्तो वानरपुंगव । का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ।।
तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यत्रवं वचः । देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ॥
सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः । तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् ॥ ९६
भाहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा । इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् ।। ९७
अगुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि । तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम् ॥ ९८
रामलक्ष्मणयोः पाश्व नयामि त्वां किमुत्तरम् । एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ॥ ९९
आह रावणमुत्साद्य राघवो मां नर्यात्वति । प्रणम्य शिरसा देवीमहमार्यामनिन्दिनाम ।।
१००
राघवस्य मनोहादमभिज्ञानमयाचिपम् । अथ मामब्रवीन सीता गृह्यतामयमुत्तमः ।।
मणिर्येन महाबाहू रामस्त्वां बहु मन्यते । इत्युक्त्वा तु वरारोहा मणिप्रवरमद्भतम ॥ १०२
प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह । ततस्तम्यै प्रणम्याहं राजपुत्र्यै समाहितः ॥
प्रदक्षिणं परिक्रामनिहाभ्युद्गतमानम.। उक्तोऽहं पुनरवेदं निश्चित्य मनसा तया ॥ १०४
हनुमन् मम वृत्तान्तं वक्तुमर्हसि राघवे । यथा श्रुत्वैव न चिरात्तावुभौ रामलक्ष्मणौ ॥ १०५
सुग्रीवसहितौ वीरावुपेयानां तथा कुरु । यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम ॥ १८६
न मां द्रक्ष्यति काकुत्स्थो मिये साहमनाथवत् । तच्छत्वा करणं वाक्य क्रोधो मामभ्यवर्तत ॥१०७
उत्तरं च मया दृष्ट कार्यशेपमनन्तरम् । ततोऽवर्धत में कायस्सदा पर्वतनिभः । १०८
युद्धकासी वनं तव विनाशयितुमारभे । तद्भग्नं वनपण्डं तु भ्रान्तत्रन्तमृद्विजम ॥
प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः । मां च दृष्टा वने तरिमन् समागम्य ततस्ततः ।। ११०
ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे । राजन वनमिद दुर्ग तव भग्नं दुरात्मना । १११
वानरेण ह्यविज्ञाय तव वीर्य महाबल । दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः ।। ११२
वधमाशापय क्षिप्रं यथासौ विलयं ब्रजेत् । तच्छ्रुत्वा राक्षसेन्द्रेण विमृष्टा भृशदुर्जयाः ।।
राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः । तेपामशीतिसाहस्रं शूलमुद्रपाणिनाम् ।। ११४
मया तस्मिन् वनोद्देशे परिघेण निपूदितम् । तेषां तु हनशेषा ये ते गत्वा लघुविक्रमाः ॥ ११५
मिहतं च महत् सैन्यं रावणायाचचक्षिरे । ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ।।
तत्रस्थान राक्षसान् हत्वा शतं स्तम्भेन वै पुनः। ललामभूतो लङ्कायाः स च विध्वंसितो मया॥११७
ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् । राक्षसैर्बहुभिः साध घोररूपैर्भयानकैः ॥ ११८
तमहं बलसंपर्म राक्षस रणकोविदम् । परिघेणातिघोरेण सूदयामि सहानुगम् ।। ११९