पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४४ श्रीमद्वाल्मीकिरामायण सुन्दरकाण्डे

केचिदुच्छ्रितलांगूलाः प्रहृष्टाः कपिफुञ्जराः । अञ्चितायतदीर्घाणि लंगूलानि प्रविष्यधुः ॥
अपरे च हनूमन्तं वानरा वारणोपमम् । आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः॥
उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत् । सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम ।।
सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते । यदवालुत्य विस्तीर्ण सागरं पुनरागतः ।। ४५
जीवितस्य प्रदाता नम्त्वमेको वानरोत्तम । त्वत्प्रसादान ममेष्यामः सिद्धार्था राघवेण तु ॥ ४६
अहो स्वामिनि ते भक्तिरहो वीर्य हो धृतिः । दिष्ट्या दृष्टा त्वया देवी गमपत्नी यशस्विनी ।।
दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम । ततोऽङ्गद हनूमन्तं जाम्बवन्तं च वानराः ।।
परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः । श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ।। ४९
दर्शनं चापि लङ्कायाः सीताया रावणस्य च । तस्थुः प्राञ्जलयः सबै हनुमद्वनोन्मुखाः ।।
तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः । उपास्यमानो विबुधैर्दिवि देवतियथा ।। ५१
हनूमता कीर्तिमता यशखिना तथाङ्गदेनाङ्गदबद्धभाहुना ।
मुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाभवत् ।।

इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्य चनुविंशतिसहनिकाया संहिताया भुन्दरकाण्ड हनूमत्प्रत्यागमनं नाम ससपश्याशः सर्गः अष्टपञ्चाशः भगः हनूमवृत्तानुकायनम्

ततस्तस्य गिरे शृङ्गे महेन्द्रस्य महाबलाः । हनुमत्प्रमुखाः प्रीति हग्यो जग्मुरुत्तमाम ॥
तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम । जाम्बवान् कार्यवृत्तान्तमपृच्छनिलात्मजम् ।।
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते । तस्यां वा म कथंवृत्तः कमी दशाननः ।।
तत्त्वतः सर्वमेतन्नः प्रमूहि त्वं महाकपे । संमार्गिता कथं देवी कि च मा प्रत्यभाषत ।
श्रुप्ताश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् । यश्वार्थस्तन वक्तव्यो गतैरस्माभिरात्मवान् ।।
रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः । म नियुक्तस्ततस्तेन संग्रहृष्टतनृम्हः ॥
प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत । प्रत्यक्षमेव भवतां महेन्द्रापान खमाप्लुतः ।।
उधेर्दक्षिणं पारं काडमाणः समाहितः । गच्छत्तश्च हि मे घोरं विनरूपमिवाभवत् ।।
काश्चनं शिखरं दिव्यं पश्यामि सुमनोहरम । स्थितं पन्थानमावृत्य मेने वित्रं च तं नगम् ॥