पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तपश्चाशः सर्गः ६१३

महेन्द्र मेघसंकाशं ननाद हरिपुंगवः । स पूरयामास कपिर्दिशो दश समन्ततः॥ १५
नदनादेन महता मेघस्वनमहास्वनः । स तं देशमनुप्राप्तः सुहृद्दर्शनलाल्सः ।।
ननाद हरिशार्दुलो लागूलं चाप्यकम्पयत् । तस्य नानधमानस्य सुपर्णाचरिते पथि ।।
फलतीवास्य घोषेण गगनं सार्कमण्डलम् । ये तु सत्रोत्तरे तीरे समुद्रस्य महाबलाः ॥ १८
पूर्व संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः । महतो वायुनुन्नस्य तोयदस्येव गर्जितम् ।। १९
शुश्रुवुस्ते तदा घोषमूगवेगं हनूमतः । ते दीनवदनाः सर्वे शुश्रुवुः काननौकसः।।
वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् । निशम्य नदतो नादं वानरास्ते समन्ततः ।। २१
बभूवुरुत्सुकाः सर्वे सुहृदर्शनकाङ्गिणः । जाम्बवांस्तु हरिश्रेष्ठः प्रीतिसंहृष्टमानसः
उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत् । सर्वथा कृतकार्योऽसौ हनूमानात्र संशयः ॥ २३
न यस्याकृतकार्यस्य नाद एवंविधो भवेत् । तस्य बाहूरुवेगं च निनादं च महात्मनः ।। २४
निशम्य हग्यो दृष्टा समुत्पेतुस्ततस्ततः । ते नगाग्रान्नगाप्राणि शिखराच्छिखराणि च ॥
प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः । ते प्रीताः पादपारेषु गृह्य शाखाः सुपुष्पिताः।। २६
वासांसीव प्रशाग्वाश्च ममाविष्यन्त वानराः । गिरिगह्वरसंलीनो यथा गर्जति मारुतः ॥
एवं जगज बलवान हनूमान् मारुतात्मजः । तमभ्रघनसंकाशमापतन्तं महाकपिम् ।।
दृष्टा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा । ततस्तु वेगवांस्तस्य गिरेगिरिनिभः कपिः ।
२९
निपपात महेन्द्रस्य शिखरे पादपाकुले । हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिहरे ।।
३०
छिन्नपक्ष इवाकाशात् पपात धरणीधरः । ततस्ते प्रीतमनसः सर्वे वानरपुंगवाः ।।
हनूमन्तं महात्मानं परिवार्योपतस्थिरे । परिवार्य च ते सर्वे परां प्रीतिमुपागताः।
३२
प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् । उपायनानि चादाय मूलानि च फलानि च ॥
प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम् । हनूमांस्तु गुरून वृद्धाञ्जाम्बवत्प्रमुखांस्तदा ।
कुमारमङ्गदं चैव सोऽवन्दत महाकपिः । स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः। ३५
दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत् । निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ।।
रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा । हनुमानब्रवीद्धृष्टस्तदा तान् वानरर्षभान् ॥ ३७
अशोकवनिकासंस्था दृष्टा सा जनकात्मजा । रक्ष्यमाणा सुघोरामी राक्षसीमिरनिन्दिता ॥
एकवेणीधरा दीना रामदर्शनलालसा । उपवासपरिश्रान्ता जदिला मलिना कशा॥ ३९
ततो दृष्टेति वचनं महार्थममृतोपमम् । निशम्य मारुतेः सर्वे मुदिता वानरा भवन् । ४.
श्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः । चक्नुः किलिकिलामन्ये प्रसिगर्जन्ति चापरे ।। ४१