पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटपश्चाशः सगः

तपर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् । निशम्य हनुमांस्तस्य वाक्यमुत्तरमब्रवीत् ।।
क्षिप्रमेष्यति काकुत्स्थो हपृक्षप्रवरैर्वृतः । यस्ते युधि विजित्यारीब्झोकं व्यपनयिष्यति ।।
एवमाश्वास्य वैदेही हनुमान मारुतात्मजः । गमनाय मति कृत्वा वैदेहीमभ्यवादयत्' ।।
ततः स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः । आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ॥
तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः । मोत्तरीर्यामवाम्भोदेः शृङ्गान्तविलम्विभिः ।।
बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः । उन्मिपन्तमिवोधूतैर्लोचनैरिव धातुभिः ।।
तोयौघनिःस्वनैर्मन्द्रैः प्राधीतमिव सर्वतः । प्रगीतमिव विस्पष्टै नाप्रस्रवणस्वनेः ॥
देवदारुभिरत्युच्चैर्वबाहुमिव स्थितम । प्रपातजलनि? पैः प्राऋष्टमिव 'सर्वतः ।।
वेपमानमिव श्यामः कम्पमानैः शरद्वनैः । वेणुभिर्मारुतोद्धृतैः कूजन्तमिव कीचकैः ।।
निःश्वमन्तमिवामादोरेंराशीविगोत्तमैः । नीहारकृत्तगम्भीरैायन्तमिव गहरैः ।।
मेघपादनिभैः पादे. प्रक्रान्तमिव मर्वतः । जृम्भमाणमित्राकाशे शिग्वरैरभ्रशालिभिः ।।
कूटैश्च बहुधाकीण शोभितं बहुकन्दरैः । सालतालाश्वकर्णश्च वंशैश्च बहुभिर्धत्तम् ।।
लतावितानविनतैः पुष्पर्वादरलंकृतम । नानामृगगणाकीर्ण धातुनिष्यदभूषितम् ॥
बहुप्रस्रवणोपेतं शिलासंचयमंकटम । महर्पियक्षगन्धर्षकिनरोरगसेवितम् ।।
लनापादपसंबाधं मिहायुपिनकन्दरम् । व्यावसङ्घममाकीर्ण स्वादुमूलफलोदकम् ॥
नमारोह हनुमान पर्वतं प्लवगोत्तम । रामदर्शनशीप्रेण प्रहर्षेणाभिचोदिनः ॥
तेन पादतलाक्रान्ता रम्येषु गिरिमानुषु । मघोपाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः ।।
म नमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः । दक्षिणादुत्तरं पारं प्रार्थयलवणाम्भसः ।।
अधिगद्य ततो वीरः पर्वतं पवनात्मजः । ददर्श सागर भीमं मीनोरगनिपेवितम ॥
स मारुन इवाकाशं मारुतग्यात्मसंभव । प्रपेदे हरिशार्दूलो दक्षिणादुत्तगं दिशम् ।।
स तदा पीडितन्तेन कपिना पर्वतोत्तमः । ररास मह तैर्भते' प्रविशन वसुधातलम् ।।
कम्पमानैश्च शिखरः पर्तागरपि च द्रमैः । तस्योगवेगोन्मथिताः पादपाः पुष्यशालिनः ॥