पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१० श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे

पुनश्चाचिन्तयत्तत्र हनुमान् विस्मितस्तदा । हिरण्यनाभस्य गिरेजेलमध्ये प्रदर्शनम् ।। २८
तपसा सत्यवाक्येन अनन्यत्वाच भर्तरि । अपि सा निर्दहेदनि न तामनिः प्रवक्ष्यति ॥ २९
स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् । शुश्राव हनुमान् वाक्यं चारणानां महात्मनाम् ।। ३०
अहो खलु कृतं कर्म दुष्करं हि हनूमता । अमिं विसृजताभीक्ष्णं भीमं राक्षससमनि ॥
प्रपलायितरक्षःखीबालवृद्धसमाकुला । जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरे ॥
३२
दग्धेयं नगरी सर्वा साट्टपाकारतोरणा । जानकी न च दग्धेति विस्मयोऽद्भुत एव नः ॥ ३३
इति शुश्राव हनुमान् वाचं ताममृतोपमाम् । बभूव चास्य मनसो हर्षस्तत्कालसंभवः'।
स निमित्तैश्च दृष्टाथैः कारणैश्च महागुणैः । ऋषिवाक्यैश्च हनुमानभवत् प्रीतमानसः ।। ३५
ततः कपिः प्राममनोरथार्थस्तामक्षतां राजसुतां विदित्वा ।
प्रत्यक्षतस्तां पुनरेव दृष्ट्रा प्रतिप्रयाणाय मतिं चकार ।।

इल्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायाम् सुन्दरकाण्डे इनूमद्विश्रमो नाम पञ्चपञ्चाशः सर्गः षट्पञ्चाशः सर्गः २ प्रतिप्रयाणोत्पतनम्

ततस्तां शिशपामूले जानकी पर्यवस्थिताम् । अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ॥ १
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः । भर्तृस्नेहान्वितं वाक्यं हनूमन्तमभाषत ।
काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरन यशस्यस्ते बलोदयः ।
शरैः सुसंकुलां कृत्वा लङ्का परबलार्दनः । मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।।
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः । भवेदावशूरस्य तथा त्यमुपपादय ॥