पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे ४४

स तानिहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् ।
प्रदीप्तलागूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ।

इत्याः श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् सुन्दरकाण्ड पावकशैत्यं नाम त्रिपञ्चाशः सर्गः चतुःपञ्चाशः सर्गः लङ्कादाहः

वीक्षमाणस्ततो ल कपिः कृतमनोरथः । वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ।।
किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् । यदेषां रक्षसां भूयः संतापजननं भवेत् ।।
वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः । अलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ॥ ३
दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम् । अल्पयत्नेन कार्येऽस्मिन् मम स्यात् सफलः श्रमः । ४
यो ह्ययं मम लास्गूले दीप्यते हव्यवाहनः । अस्य संतर्पणं न्याय्यं कर्तुमेमिहोत्तमैः॥
ततः प्रदीप्तलाशूलः सविद्युदिव तोयदः । भवनाप्रेषु लङ्काया विचचार महाकपिः॥
गृहाद्गृहं राक्षसानामुद्यानानि च वानरः। वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः ॥
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् । अग्निं तत्र स निक्षिप्य श्वसनेन समो बली ।।
ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् । मुमोच हनुमानमिं कालानलशिखोपमम् ।।
वनदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः । शुकस्य च महातेजाः सारणस्य च धीमतः ॥
तथा चेन्द्रजितो वेश्म ददाह हरियूथपः । जम्बुमालेः सुमालेश्च ददाह भवनं ततः॥ ११
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च । हरखकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः॥ १२
युद्धोन्मत्तस्य मत्तस्य ध्वजनीवस्य रक्षसः । विशुजिह्वस्य घोरस्य तथा हन्तिमुखस्य च ॥ १३
करालस्य विशालस्य शोणिताक्षस्य चैव हि । कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि ॥
यज्ञशत्रोश्च भवन ब्रह्मशत्रोस्तथैव च । नरान्तकस्य कुम्भस्य निकुम्भस्थ दुरात्मनः ।।
वर्जयित्वा महातेजा विभीषणगृहं प्रति । क्रममाणः क्रमेणैव ददाह हरिपुंगवः ।। १६
तेषु तेषु महापु भवनेषु महायशाः । गृहेष्वृद्धिमतामृद्धिं ददाह स महाकपिः ॥
सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् । ससादाथ लक्ष्मीवान रावणस्य निवेशनम् ॥ १८
ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते । मेरुमन्दरसंकाशे सर्वमङ्गलशोभिते ।। १९
प्रदीप्तमग्निमुत्सृज्य लागूलाग्रे प्रतिष्ठितम् । ननाद हनुमान वीरो युगान्ते जलवो यथा ॥