पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिपञ्चाशः सर्गः

शङ्खभेरीनिनादैश्च घोषयन्तः स्वकर्मभिः। राक्षसाः क्रूरकर्माणश्चारयन्ति ग्म तां पुरीम् ।। १८
अन्वीयमानो रक्षोभिर्ययौ सुखमरिंदमः । हनूमांश्चारयामास राक्षमानां महापुरीम ।। १९
अथापश्यद्विमानानि विचित्राणि महाकपिः । संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् ॥ २०
वीथीश्च गृहसंबाधाः कपिः शृङ्गाटकानि च । तथा रथ्योपरथ्याश्च तथैव च गृहान्तरान् ॥ २१
गृहांश्च मेघसंकाशान् ददर्श पवनात्मजः । चत्वरेषु चतुष्केपु राजमार्गे तथैव च ॥
घोषयन्ति कपि सर्वे चार इत्येव राक्षसाः । स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् ।। २३
तं प्रदीपितलागूलं हनुमन्तं दिदृक्षवः । दीप्यमाने ततस्तस्य लागूलाग्रे हनूमतः ।।
राक्षस्यम्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् । यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ।।
लागलेन प्रदीप्तेन स एष परिणीयते । श्रुत्वा तद्वचनं करमात्मापहरणोपमम् ।। २६
वैदेही शोकसंतप्ता हुताशनमुपागमत् । मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः॥
उपतन्थे विशालाक्षी प्रयवा हव्यवाहनम् । यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।
यदि वात्येकपत्नीत्वं शीतो भव हनूमतः । यदि कश्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः ।।
यदि वा भाग्यशेषो मे शीतो भव हनूमतः । यदि मां वृत्तसंपन्नां तत्समागमलालसाम् ।। ३०
स विजानाति धर्मात्मा शीतो भव हनूमतः । यदि मां तारयेदार्यः सुग्रीवः सत्यसंगरः ।। ३१
अस्माद्दुःखाम्बुसंगेधाच्छीतो भव हनूमतः । ततस्तीक्ष्णार्चिरन्यनः प्रदक्षिणशिवोऽनलः ।। ३२
जज्बाल मृगशाबाझ्याः शंसन्निव शिवं कपेः । हनुमन्जनकश्चापि पुच्छानलयुतोऽनिलः ।। ३३
वौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः । दह्यमाने च लागूले चिन्तयामास वानरः ॥ ३४
प्रदीमोऽग्निरयं कस्मान्न मां दहति सर्वतः । दृश्यनं च महाज्वालो न करोति च मे
रुजम्
शिशिरस्येव संपासो लागूलामे प्रतिष्ठितः । अथवा तदिदं व्यक्तं यदृष्टं प्लवता मया ।। ३६
रामप्रभावादाश्चर्य पर्वतः सरितां पतौ । यदि तावत् समुद्रस्य मैनाकस्य च धीमतः ।। ३७
रामार्थ संभ्रमस्ताकिमग्निर्न करिष्यति । सीतायाश्चानृशंस्येन तेजसा राघवस्य च ॥ ३८
पितुश्च मम सत्येन न मां दहति पावकः । भूयः स चिन्तयामास मुहूर्त कपिकुञ्जरः ।।
उत्पपाताथ वेगेन ननाद च महाकपिः । पुरद्वार ततः श्रीमाझौलशृङ्गमिवोन्नतम् ।।
विभक्तरक्षःसंबाधमाससादानिलात्मजः । स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान् ।।
हस्थतां परमां प्राप्तो बन्धनान्यवशातयत् । विमुक्तश्चाभवच्छीमान पुनः पर्वतसंनिभः ॥
वीक्षमाणश्च ददृशे परिधं तोरणाश्रितम् । स वं गृह्य महाबाहुः कालायसपरिष्कृतम् ।। ४३
रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः।।