पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विपश्चाशः सर्गः

बैरूप्यमङ्गधु कशामिघावो मौण्ड्यं तथा लक्षणसनिपातः ।
एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतोऽपि ॥
१५
कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः ।
भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः ।।
१६
न धर्मवादे न च लोकवृत्ते न शाखबुद्धिग्रहणेपु चापि ।
विद्येत कश्चित्तव वीर तुल्यस्त्वं धुत्तमः सर्वसुरासुराणाम् ॥
शूरेण वीरेण निशाचरेन्द्र सुरासुराणामपि दुर्जयेन ।
त्वया प्रगल्भाः सुरदैत्यसका जिताश्च युद्धेष्वसकमरेन्द्राः॥
१८
इत्थंविधस्यामरदैत्यशत्रोः शूरस्य वीरस्य तवाजितस्य ।
कुर्षन्ति मूढा मनसो व्यलोकं प्राणैर्वियुक्ता ननु ये पुरा ते॥
१९
न चाप्यस्य कपेर्धाते कंचित् पश्याम्यहं गुणम् । तेप्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ।। २०
साधुर्वा यदि वासाधुः परैरेष समर्पितः । ब्रुवन् परार्थ परवान्न दूतो वधमर्हति ।।
अपि चास्मिन हते राजन्नान्यं पश्यामि खेचरम् । इह यः पुनरागच्छेत् परं पार महोदधेः ॥ २२
तस्मामास्य वधे यत्नः कार्यः परपुरंजय । भवान् सेन्द्रेपु देवेषु यत्नमास्थातुमईति ।। २३
अस्मिन् विनष्टे न हि दूतमन्यं पश्यामि यस्तो नरराजपुत्रौ ।
युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेहीर्घपथावरुद्धौ ॥
पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन ।
त्वया मनोनन्दन नैतानां युद्धायति शयितुं न युक्ता ॥
हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु ।
मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यप्रतरते सुभृताश्च योधाः ।।
२६
तदेकदेशेन बलस्य तावत् केचित्तवादेशकृतोऽभियान्तु ।
तौ राजपुत्रौ विनिगृह्य मूढौ परेपु ते भावयितुं प्रभावम् ।।