पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३२ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे

देवाश्च दैत्याश्च निशाचरेन्द्रगन्धर्वविद्याधरनागयक्षाः।
रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे ॥
ब्रह्मा स्वयंभूश्चतुराननो वा रुद्रत्रिनेत्रलिपुरान्तको वा।
इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ॥
स सौष्टयोपेतमदीनवादिनः कपेनिशम्याप्रतिमोऽप्रियं वचः ।
दशाननः कोपविवृत्तलोचनः समादिशत्तस्य वधं महाकपेः ।।

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायाम् सुन्दरकाण्डे हनूमदुपदेशो नाम एकपञ्चाशः सर्गः द्विपञ्चाशः सर्गः दूनवनिवारणम्

तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः । आज्ञापयत्तस्य वधं रावणः क्रोधमूर्छितः ।।
वघे तस्य समाशसे रावणेन दुरात्मना । निवेदितवतो दौत्यं नानुमेने विभीषणः ।।
तं रक्षोऽधिपतिं कुद्धं तच्च कार्यमुपस्थितम् । विदित्वा चिन्तयामास कार्य कार्यविधौ स्थितः ॥
निश्चितार्थस्ततः साना पूज्यं शत्रुजिदप्रजम् । उवाच हितमत्यर्थ वाक्यं वाक्यविशारदः।।
क्षमस्व रोपं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व ।
वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः ।।
राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् । तव चासदृशं वीर कपेरस्य प्रमापणम् ॥
धर्मज्ञश्च कृतमश्च राजधर्मविशारदः । परावरज्ञो भूतानां त्वमेव परमार्थवित् ॥
गृह्यन्ते यदि रोषेण त्वादृशोऽपि विपश्चितः । ततः शास्त्रविपश्चित्त्वं श्रम एव हि केवलम् ।।
तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद । युक्तायुक्तं विनिश्चित्य दूते दण्डो विधीयताम् ॥
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत् ॥
न पापानां वधे पापं विद्यते शत्रुसूदन । तस्मादेनं वधिष्यामि वानरं पापकारिणम् ।।
अधर्ममूलं बहुरोषयुक्तमनार्यजुष्टं वचनं निशम्य ।
उवाच वाक्यं परमार्थतत्वं विभीषणो बुद्धिमतां वरिष्ठः ॥
प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व ।
दूतानवध्यान समरेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः ॥
असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् ।
न दूतवभ्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ।।