पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२ श्रीमद्वाल्मीकिरामायणे बालकाण्डे

तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् । पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञाप्तमकुर्वत ॥२० ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् । अनुज्ञातास्तत: सर्वे पुनर्जग्मुर्यथागतम् ॥२१ गतेष्वथ द्विजाग्रयेषु मन्त्रिणस्तान्नराधिपः । विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ।।२२ इत्यार्षे श्रीमद्रामायण वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायां बालकाण्डे अश्वमेधसंभारो नाम द्वादशः सर्गः

त्रयोदशः सर्गः यज्ञशालाप्रवेश: पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् । प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ।।१ अभिवाद्य वसिष्टं च न्यायतः प्रतिपूज्य च । अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ।।२ यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुंगव । यथा न विघ्न: क्रियते यज्ञाङ्गेषु विधीयताम् ।।३ भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् । वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ।। ४ तथेति च स राजानमब्रवीद् द्विजसत्तम: । करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् ।।५ ततोऽऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान् । स्थापत्ये निष्टितांश्चैव वृद्धान परमधार्मिकान् ।। कर्मान्तिकान् शिल्पकरान् वर्धकीन् खनकानपि । गणकान् शिल्पिनश्चैव तथव नटनर्तकान् ।।७ तथा शुचीन् शास्त्रविदः पुरुषान सुबहुश्रुतान् । यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ।।८ इष्टका बहुसाहस्री शीघ्रमानीयतामिति । औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः॥९ ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः । भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः॥ १० तथा पौरजनस्यापि कर्तव्या बहुविस्तराः। आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ।। ११ वाजिवारणशालाश्च तथा शय्यागृहाणि च । भटानां महदावासा वैदेशिकनिवासिनाम् ।। १२ आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः । पौरजानपदस्यापि जनस्य बहुशोभनम् ।। १३ दातव्यमन्तं विधिवत् सत्कृत्य न तु लीलया । सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः॥ १४ न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि । यज्ञकर्मसु ये व्यग्रा: पुरुषाः शिल्पिनस्तथा ।। १५ तेषामपि विशेषेण पूजा कार्या यथाक्रमम् । ये स्युः संपूजिताः सर्वे वसुभिर्भोजनेन च ।।१६ यथा सर्व सुविहितं न किंचित परिहीयते । तथा भवन्तः कुर्वन्तु प्रीतस्निग्धेन चेतसा ॥१७