पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अस्त्रेण हनुमान् मुक्तो नात्मानवबुध्यत । कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः ॥ ५१
हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः । समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः॥
अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः ।
व्यदर्शयत्तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे।
तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् । राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ।।
कोऽयं कस्य कुतो वात्र किं कार्यं को व्यपाश्रयः । इति राक्षसवीराणां तत्र संजज्ञिरे कथाः ॥ ५५
हन्यतां दयतां वापि भक्ष्यतामिति चापरे । राक्षसास्तत्र संकुद्धाः परस्परमथाब्रुवन् ।
अतीत्य मार्गं महसा महात्मा स तत्र रक्षोऽधिपपादमूले।
ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च ॥

स ददर्श महातेजा रावणः कपिसत्तमम् । रक्षोभिर्विकृताकारैः कुष्यमाणमितस्ततः॥
राक्षसाधिपतिं चापि ददर्श कपिसत्तमः । तेजोबलसमायुक्तं तपन्तमिव भास्करम् ॥ ५९
स रोषसंवर्तितताम्रदृष्टिदशाननस्तं कपिमन्ववेक्ष्य ।
अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तं प्रति मन्त्रिमुख्यान् ।।
६०
यथाक्रमं तैः स कपिर्विपृष्टः कार्यार्थमर्थस्य च मूलमादौ ।
निवेदयामास हरीश्वरस्य दूतः सकाशादहभागतोऽस्मि ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकान्ये चतुर्विंषति सहसिकायां संहितायाम्
सुन्दरकाण्डे इन्द्रजिदभियोगो नाम अष्टचत्वारिंशः सर्ग:



                एकोनपञ्चाशः सर्गः
               रावणप्रभावदर्शनम्
ततः स कर्मणा तस्य विस्मितो भीमविक्रमः । हनुमान् रोपताम्राक्षो रक्षोऽधिपमवैक्षत ॥
भ्राजमानं महार्हेण काञ्चनेन विराजता । मुक्ताजालावृतेनाथ मकुटेन महाद्युतिम् ।।
वनसंयोगसंयुक्तैर्महामणिविग्रहैः । हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ।।
महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् । स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः
विवृतै दर्शनीयैश्च रक्तार्भीमदर्शनैः । दीप्रतीक्ष्णमहादंष्ट्ऱैः प्रलम्बदशनच्छदैः ।।
शिरोभिर्दशभिर्वीरं भ्राजमान महौजसम् । नानाव्यालसमाकीणैः शिखरैरिव मन्दरम् ॥
नीलाञ्जनचयप्रख्यं हारेणोरसि राजता । पूर्णचन्द्राभवक्त्रेण सबलाकमिवाम्बुदम् ।।
बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूपितैः । भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षै रिवोरगैः॥
महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते । उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ॥