पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टचत्वारिंशः सर्ग:

           इन्द्रजिदभियोगः

ततस्तु रक्षोऽधिपतिर्महात्मा हनूमताक्षे निहते कुमारे।
मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं स रोषात् ।।
 त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता ।
सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसंचितास्त्रः ॥
तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः । 'न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः ॥
न कश्चित् त्रिषु लोकेषु संयुगे नगतश्रमः । भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः
देशकालविभाज्ञस्त्वमेव मतिसत्तमः ।।

न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे ।
न सोऽस्ति कश्चित् त्रिपु संग्रहेषु वै न वेद यस्तेऽस्त्रबलं बलं च ते ।।
ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे ।
न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ।।
निहताः किंकराः सर्वे जम्बुमाली च राक्षसः । अमात्यपुत्रा वीराश्च पञ्च सेनाप्रयायिनः ।।
बलानि सुसमृद्धानि साश्वनागरथानि च । सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः ।।
न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ।।
इदं हि दृष्टा मतिमन् महद्धलं कपेः प्रभावं च पराक्रमं च ।
त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ।।
बलावमर्दस्त्वयि संनिकृष्टे यथागते शाम्यति शान्तशत्रौ ।
तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रषिदां वरिष्ठ ।।
न वीर सेना गणशोच्यवन्ति न वज्रमादाय विशालसारम् ।
न मारुतस्यास्य गतिप्रमाणं न चाग्निकल्पः करणेन हन्तुम् ॥
तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा ।
स्मरंश्च दिव्यं धनुषोऽसवीर्यं व्रजाक्षतं कर्म समारभस्व ।।