पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तचत्वारिंशः सर्गः ६२३

ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम् ।
अवैक्षताक्ष: समुदीर्णमानसः स बाणपाणिः प्रगृहीतकार्मुकः ॥
स हेमनिष्कामवचारकुण्डलः समाससादाशुपराक्रमः कपिम् ।
तयोर्षभूवाप्रतिमः समागमः सुरासुराणामपि संभ्रमप्रदः।।
ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः ।
कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च धौरुदधिश्च चुक्षुभे ॥
ततः स वीरः सुमुखान् पतत्रिणः सुवर्णपुङ्खान् सविपानिवोरगान् ।
समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन् कपिमूर्तर्ध्न्यपातयात् ।।
स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसन्दिग्धविवृत्तलोचनः ।
नबोदितादित्यनिभः शरांशुमान् व्यारोचतादित्य इवांशुमालिकः ।।
ततः स पिङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे।
उदग्रचित्तायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ।
समन्दरग्रस्स्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः ।
कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ।।
ततः स बाणासनचित्रकार्मुकः शरप्रवर्षों युधि राक्षसाम्बुदः ।
शरान् मुमोचाशु हरीश्वराचले वलाहको वृष्टिमिवाचलोत्तमे ॥
ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसंचयम् ।
कुमारमक्षं प्रसमीक्ष्न्य संयुगे ननाद हर्षाद्वनतुल्यनिःस्वनः ॥
स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः ।
समाससादाप्रतिमं कपिं रणे गजो महाकूपमिवावृतं तृणैः ।।
स तेन बाणैः प्रसभं निपातितैश्चकार नादं घननादनिःस्वनः।
समुत्पपाताशु नभः स मारुतिर्भुजोरुविक्षेपणघोरदर्शनः ॥
समुत्पतन्तं समभिद्रवद्भली स राक्षसानां प्रवरः प्रतापवान् ।
रथी रथिश्रेष्ठतमः किरणशरैः पयोधरः शैलभिवाश्मवृष्टिभिः॥
स ताञ्शरांस्तस्य विमोक्षयन् कपिश्वचार वीरः पथि वायुसेविते ।
शरान्तरे मारुतवद्विनिष्पतन् मनोजवः संयति चण्डविक्रमः ॥
तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विविधैः शरोत्तमैः ।
भवेक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मानतात्मजः ।।
ततः शरैभिन्नभुजान्सरः कपिः कुमारवीर्येण महात्मना नदन् ।
महाभुजः कर्मविशेषतत्वविद्विचिन्तयामास रणे पराक्रमम् ।।