पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति


ततः कपिस्ताणन् ध्वजिनीपतीन् रणे निहत्य वीरान् सबलान् सबाहनान् ।
तदेव वीरः परिगृह्म तोरणं कृतक्षणः काल इव प्रजाक्ष्ये ॥
इत्यार्षे श्रिमद्रामयणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम्
सुन्दरकाण्डे सेनापतिपञ्चकवधो नाम षट्चत्वारिंशः सर्गः
             सप्तचत्वारिंशः सर्गः

                अक्षकुमारवधः

सेनापतीन् पञ्च स तु प्रमापितान् हनूमता सानुचरान् सवाहनान् ।
निशम्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः ।।
स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः ।
समुत्पपाताथ सदस्युदीरितो द्विजातिमुल्यैहविषेव पावकः ।।
ततो महान् बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसनंततम् ।
रथं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः ।
ततस्तपःसंंग्रहसंचयार्जितं प्रतप्तजाम्बूनदजालशोभितम् ।
पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम् ।।
सुरासुराधृष्यमसङ्गाचारिणं रविप्रभं व्योमचरं समाहितम् ।
सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ।।
विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा ।
दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः ।।
स पूरयन् खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः ।
बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत् कपिम् ॥
स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये ।
अवस्थितं विस्मितजातसंभ्रमः समैक्षताक्षो बहुमानचक्षुषा ।
स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु रावणात्मजः ।
विचारयन् स्वं च बलं महाबलो युगक्षये सूर्य इवाभिवर्धते ॥
स जातमन्युः प्रसमीक्ष्य विक्रम स्थिरं स्थितः संयति दुर्निवारणम् ।
समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः ।।