पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२१
षट्चत्वारिंशः सर्गः

न मतिर्न बलोत्साहौ न रूपपरिकल्पनम् । महत्सत्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ।।
प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः । कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः॥
भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे । तथापि तु नयज्ञेन जयमाकाङ्कता रणे ॥
आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिहि चञ्चला । ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः।।
समुत्पेतुर्महावेगा हुताशसमतेजसः । रथैर्मतैश्च मातङैर्वाजिभिश्च महाजवैः ।।
शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्वोपचिता बलैः । ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् ।।
रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् । तोरणरथं महोत्साहं महावेगं महाबलम् ।।
महामतिं महोत्साहं महाकायं महाभुजम् । तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ।। १९
तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्तः । तस्य पञ्चायसास्तीक्ष्णाः शिताःपीतमुखाः शराः ।।
शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः । स तैः पश्चभिराविद्धः शरैः शिरसि वानरः ।।
उत्पपात नदन् व्योम्नि दिशो दश विनादयन् । ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः ।।
किरशरशतैरतीक्ष्णैरभिपेदे महाबलः । स कपिर्वारयामास तं ब्योम्नि शरवर्पिणम् ।।
वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः । अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः ॥
चकार निनदं भूयो व्यवर्धत च वेगवान् । स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ।।
निपपात महावेगो विद्युद्राशिर्गिराविव । ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् ॥ २६
विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः । तं विरूपाक्षयूपाक्षौ दृशष्ट्वा निपतितं भुवि ।।
संजातरोषौ दुर्धर्षावुत्पेततुररिंदमौ । स ताभ्यां सहसोत्पत्य विष्टितो विमलेऽम्बरे ॥
मुद्राभ्यां महाबाहुर्वक्षस्यभिहतः कपिः । तयोर्वेगवतोर्वेगं विनिहत्य महाबलः ।।
निपपात पुनर्भुमौ सुपर्णसमविक्रमः । स सालवृक्षमासाद्य तमुत्पाट्य च वानरः ।।
तावुभौ राक्षसौ वीरौ जघान पवनात्मजः । ततस्तांस्त्रीन् हताञ्ज्ञात्वा वानरेण तरस्विना ।। ३१
अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् । भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् ।। ३२
एकतः कपिशार्दूलं यशस्विनमवस्थितम् । पट्टसेन शिताग्रेण प्रघसः प्रत्यबोधयत् ।। ३३
भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् । स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ।।
अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः । समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ।।
जधान हनुमान् वीरो राक्षसौ कपिकुञ्जरः । ततस्तेष्ववसन्नेषु सेनापतिपु पञ्चसु ॥ ३६
बलं तदवशेषं च नाशयामास वानरः । अश्वैरश्वान् गजैर्नागन् योधैर्योधान् रथै रथान् ॥ ३७
सकपिर्नाशयामस सहस्राक्ष इवासुरान् । हतैनांगैस्तुरङैश्च भग्नाक्षैश्च महारथैः ।।
हतैश्च राक्षसैर्भुमी रुद्धमार्गा समन्ततः ।।