पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वादशः सर्गः अन्तःपुरस्त्रियः सर्वाः शान्तां दृष्टा तदागताम् । सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ।।३० पूज्यमाना च ताभि: सा राज्ञा चैव विशेषतः । उवास तत्र सुखिता कंचित्कालं सहर्त्विजा ।। ३१ इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायां, बालकाण्डे ऋश्यशृङ्गस्यायोध्याप्रवेशो नाम एकादशः सर्गः द्वादशः सर्गः अश्वमेधसंभारः ततः काले बहुतिथे कस्मिंश्चित सुमनोहरे । वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥१ ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम् । यज्ञार्थं वरयामास संतानार्थं कुलस्य च ॥२ तथेति च स राजानमुवाच , सुसत्कृतः । संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम् ।।३ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम । ततो नृपोऽब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम ।।४ सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः । सुयझं वामदेवं च जाबालिमथ काश्यपम ।।५ पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः । ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।।६ समानयत स तान् विप्रान समर्थान् वेदपारगान् । तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।।७ धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् । मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ॥८ तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम । तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।।९ ऋषिपुत्रप्रभावेण कामान् प्राप्स्यामि चाप्यहम । ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन्।।१० वसिष्ठप्रमुखाः सर्वं पार्थिवस्य मुखाच्च्युतम । ऋश्यशृङ्गपुरोगाश्च प्रत्यूचुर्नपतिं तदा ।। ११ संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम । सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम ।। १२ सर्वथा प्राप्स्यसे पुत्रांश्चतुरोऽमितविक्रमान् । यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ १३ ततः प्रीतोऽभवद्राजा श्रुत्वा तद्विजभाषितम् । अमात्यांश्चानब्रवीद्राजा हर्षणेदं शुभाक्षरम ।। १४ संम्भाराः संभियन्तां मे गुरूणां वचनादिह । समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम ॥ १५ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम । शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि ॥ १६ शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता । नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ॥१७ छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः। विघ्नितस्य हि यज्ञस्य सद्य: कर्ता विनश्यति ॥१८ तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते । तथा विधानं क्रियतां समर्थाः करणेष्विह ।। १९