पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे । शिरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥ १४
स शरैः पूरिततनुः क्रोधेन महता वृतः । तमेव परिधं गृह्य भ्रामयामास वेगतः ॥ १५
अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः। परिघं पातयामास जम्बुमालेर्महोरसि ॥ १६
तस्य चैव शिरो नास्ति न बाहू न च जानुनी । न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ।। १७
स हसंस्तरसा तेन जम्बुमाली महाबलः । पपात निहतो भूमौ चूर्णिताङ्गविभूषणः॥ १८
जम्बुमालिं च निहतं किंकरांश्च महाबलान् । चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ।। १९
स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रं निहते महाबले ।
अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ।। २०
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
सुन्दरकाण्डे जम्बुमालिवधो नाम चतुश्चत्वारिंशः सर्गः

पञ्चचत्वारिंशः सर्गः
अमात्यपुत्रवधः
ततरते राक्षसेन्द्रेण चोदिता मन्त्रिणां सुताः । निर्ययुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ।। १
महाबलपरीवारा धनुष्मन्तो महाबलाः । कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः॥ २
हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः । तोयदस्वननिर्घोषैर्र्वाजियुक्तैर्महारथैः ।। ३
तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः । विस्फारयन्तः संहृष्टास्तटित्वन्त इवाम्बुदाः ।। ४
जनन्यस्तु ततस्तेषां विदित्वा किंकरान हतान् । बभूवुः शोकसंभ्रान्ताः सबान्धवसुहृज्जनाः॥ ५
ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः । अभिपेतुर्हनूमन्तं तोरणे समवस्थितम् ।। ६
मजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः । वृष्टिमन्त इवाम्भोदा विचेरुनैर्ऋताम्बुदाः ॥ ७
अवकीर्णस्ततस्ताभिर्हनुमाञ्शरवृष्टिभिः । अभवत् संवृताकारः शैलराडिव वृष्टिभिः॥ ८
स शरान् मोघयामास तेषामाशुचरः कपिः । रथवेगं च वीराणां विचरन् विमलेऽम्बरे ॥ ९
स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते । धनुष्मद्भिर्यथा मेधैर्मारुतः प्रभुरम्बरे ॥ १०