पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् । अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः॥ २१
दशनागबलाः केचित् केचिदशगुणोत्तराः । केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।। २२
सन्ति चौघबलाः केचित् केचिद्वायुबलोपमाः । अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ॥ २३
ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः । शतैः शतसहस्रैश्च कोटीभिरयुतैरपि ।। २४
आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः । नेयमस्ति पुरी लङ्का न यूयं न च रावणः ।। २५
यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना ।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
सुन्दरकाण्डे चैत्यप्रासाददाहो नाम त्रिचत्वारिंशः सर्गः

चतुश्चत्वारिंशः सर्गः
जम्बुमालिवधः
संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली । जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ।। १
रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः । महान् विवृत्तनयनश्चण्डः समरदुर्जयः ।। २
धनुः शक्रधनुःप्रख्यं महद्रुचिरसायकम् । विस्फारयाणो वेगेन वनाशनिसमस्वनम् ।। ३
तस्य विस्फारघोषेण धनुषो महता दिशः। प्रदिशश्च नभश्चैव सहसा समपूर्यत ।। ४
रथेन खरयुक्तेन तमागतमुदीक्ष्य सः । हनुमान् वेगसंपन्नो जहर्ष च ननाद च ॥ ५
ते तोरणविटङ्कस्थं हनुमन्तं महाकपिम् । जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ।। ६
अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना । बाहोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ।। ७
तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् । शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ।। ८
तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् । यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ।। ९
चुकोप बाणामिहतो राक्षसस्य महाकपिः । ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् ।। १०
तरसा तां समुत्पाट्य चिक्षेप बलवद्बली । तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ।। ११
विपन्नं कर्म तद्दृष्ट्वा हनुमांश्चण्डविक्रमः । सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ १२
भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् । चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः ।। १३