पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जानकीरक्षणार्थ वा श्रमाद्वा नोपलक्ष्यते । अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ॥ १८
चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता । प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः ।। १९
तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि । सीता संभाषिता येन तद्वनं च विनाशितम् ॥ २०
मनःपरिगृहीतां तां तव रक्षोगणेश्वर । कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः॥ २१
राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः। हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ॥ २२
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्रबिन्दवः । दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥ २३
आत्मनः सदृशाञ्शूरान् किंकरान्नाम राक्षसान्। व्यादिदेश महातेजा निग्रहार्थं हनूमतः ॥ २४
तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् । निर्ययुर्भवनात्तस्मात् कूटमुद्गरपाणयः ।। २५
महोदरा महादंष्ट्रा घोररूपा महाबलाः । युद्धाभिमनसः सर्वे हनुमद्ग्रहणोन्मुखाः ।। २६
ते कपिं तं समासाद्य तोरणस्थमवस्थितम् । अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ॥ २७
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः । आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसंनिभैः ।। २८
मुद्गरैः पट्टसैः शूलैः प्रासतोमरशक्तिभिः । परिवार्य हनूमन्तं महसा तस्थुरग्रतः. ।। २९
हनुमानपि तेजस्वी श्रीमान् पर्वतसंनिभः । क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम् ।। ३०
स भूत्वा सुमहाकायो हनुमान् मारुतात्मजः । धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ ३१
तस्यास्फोटितशब्देन महता चानुनादिना । पेतुर्विहिङ्गा गगनादुच्चैश्चेदमघोषयत् ॥ ३२
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ ३३
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । हनुमाञ्शत्रुसैन्यानाम् निहन्ता मारुतात्मजः ।। ३४
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् । शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ ३५
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् । समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ।। ३६
तस्य संनादशब्देन तेऽभवन् भयशङ्किताः । ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ॥ ३७
स्वामिसंदेशनिःशङ्कास्ततस्ते राक्षसाः कपिम् । चित्रैः प्रहरणैर्भीमैरभिपेतुः सहस्रशः ।। ३८
स तैः परिवृतः शूरैः सर्वतः स महाबलः । आसमादायसं भीमं परिघं तोरणाश्रितम् ।। ३९
स तं परिघमादाय जघान च निशचरान् । स पन्नगमिषादाय स्फुरन्तं विनतासुतः ॥ ४०
विचचाराम्बरे वीरः परिगृह्य च मारुतिः । स हत्वा राक्षसान् वीरान् किंकरान् मारुतात्मजः।। ४१
युद्धकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः । ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः ॥ ४२
निहतान् किंकरान् सर्वान् रावणाय न्यवेदयन् ॥