पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः।
शिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् ।। १९
सा विह्वलाशोकललाप्रताना वनस्थली शोकलताप्रताना ।
जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य ॥ २०
स तस्य कृत्वार्थपतेर्महाकपिर्महद्व्यलोकं मनसो महात्मनः ।
युयुत्सुरेको बहुभिर्महाबलेः श्रिया ज्वलंस्तोरणमास्थितः कपिः ।। २१
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
सुन्दरकाण्डे प्रमदावनभञ्जनं नाम एकचत्वारिंशः सर्गः

द्विचत्वारिंशः सर्गः
किंकरनिषूदनम्
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च । बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ।। १
विद्रुताश्च भयत्रस्ता विनेदुर्मुगपक्षिणः । रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ॥ २
ततो गतायां निद्रायां राक्षस्यो विकृताननाः । तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ।। ३
स ता दृष्टा महाबाहुर्महासत्त्वो महाबलः । चकार सुमहद्रूपं राक्षसीनां भयावहम् ।। ४
ततस्तं गिरिसङ्काशमतिकायं महाबलम् । राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥ ५
कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः । कथं त्वया सहानेन संवादः कृत इत्युत ।। ६
आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् । संवादमसितापाङ्गगे त्वया किं कृतवानयम् ।। ७
अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी । रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ॥ ८
यूयमेवाभिजानीत योऽयं यद्वा करिष्यति । अहिरेव ह्यहेः पादान् विजानाति न संशयः ॥ ९
अहमप्यस्य भीतास्मि नैनं जानामि को न्वयम् । वेत्ति राक्षसमेवैनं कामरूपिणमागतम् ॥ १०
वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः । स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ॥ ११
रावणस्य समीपे तु राक्षस्यो विकृताननाः । विरूपं वानरं भीममाख्यातुमुपचक्रमुः ।। १२
अशोकवनिकामध्ये राजन् भीमवपुः कपिः । सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः ॥ १३
नच तं जानकी सीता हरिं हरिणलोचना । अस्माभिर्बहुधा पृष्ठा निवेदयितुमिच्छति ।। १४
वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा । प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया ।। १५
तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम् । नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ।। १६
न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः । यत्र सा जानकी सीता स तेन न विनाशितः ॥ १७