पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यथा स च महाबाहुर्मां तारयति राघवः । अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।। ९
जीवन्ती मां यथा रामः संभावयति कीर्तिमान् । तत्तथा हनुमन्वाच्यो वाचा धर्ममवाप्नुहि ॥ १०
नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा त्वयेरिताः। वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ।। ११
मत्संदेशयुता वाचस्त्वत्तः श्रुत्वैव राघवः । पराक्रमे मतिं वीरो विधिवत्संविधास्यति ॥ १२
सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः । शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ १३
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः । यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति ॥ १४
न हि पश्यामि मर्त्येषु नामरेष्वसुरेषु वा । यस्तस्य क्षिपतो बाणान् स्थातुमुत्सहतेऽग्रतः ।। १५
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् । स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ॥ १६
स हि सागरपर्यन्तां महीं शासितुमर्हति । त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ॥ १७
तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम् । जानकी बहु मेनेऽथ वचनं चेदमब्रवीत् ।। १८
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः । भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ।। १९
यदि वा मन्यसे वीर वसैकाहमरिंदम । कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥ २०
मम चैवाल्पभाग्यायाः सांनिध्यात्तव वानर । अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ॥ २१
गते हि हरिशार्दूले पुनरागमनाय तु । प्राणानामपि संदेहो मम स्यान्नात्र संशयः ।। २२
तवादर्शनजः शोको भूयो मां परितापयेन् । दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ।। २३
अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः । सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।। २४
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् । तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ।। २५
त्रयाणामेव भूनानां सागरस्यास्य लङ्घने । शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ।। २६
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे । किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ।। २७
काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरन यशस्यरते बलोदयः ॥ २८
बलैः समग्रेदि मां रावणं जित्य संयुगे । विजयी स्वपुरी यायात्तत्तु मे स्याद्यशस्करम् ॥ २९
शरैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः । मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ ३०
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः । भवेदाहवशूरस्य तथा त्वमुपपादय ।। ३१
तदर्थोपहितं वाक्यं सहितं हेतुसंहितम । निशम्य हनुमाञ्शेषं वाक्यमुत्तरमब्रवीत् ॥ ३२
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः । सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः ।। ३३
स वानरसहस्राणां कोटीभिरभिसंवृतः । क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ।। ३४
तस्य विक्रमसंपलाः सत्त्ववन्तो महाबलाः । मनःसंकल्पसंपाता निदेशे हरयः स्थिताः ॥ ३५
येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः । न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ ३६