पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः । वृद्धोपसेवी लक्ष्मीवाञ्शक्तो न बहु भाषिता ॥ ६१
राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे । मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः ।। ६२
नियुक्तो थुरि यस्यां तु तामुद्वहति वीर्यवान् । यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत् । ६३
स ममार्थाय कुशलं वक्तव्यो वचनान्मम । मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ॥ ६४
यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् । त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ॥ ६५
राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् । इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः॥ ६६
जीवितं धारयिष्यामि मासं दशरथात्मज । ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ।। ६७
रावणेनोपरुद्धां मां निकृत्या पापकर्मणा । त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ॥ ६८
ततो वनगतं मुक्त्वा दिव्यं चूडामणिं शुभम् । प्रदेयो राघवायेति सीता हनुमते ददौ ॥ ६९
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् । अङ्गुल्या योजयामास न यस्य प्राभवद्भुजः ।। ७०
मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च । सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ॥ ७१
हर्षेण महता युक्तः सीतादर्शनजेन सः । हृदयेन गतो रामं शरीरेण तु निष्ठितः ।। ७२
मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् ।
गिरिरिव पवनावधूतमुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ।। ७३
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
सुन्दरकाण्डे वायसवृत्तान्तकथनं नाम अष्टात्रिंशः सर्गः

एकोनचत्वारिंशः सर्गः
हनूमत्संदेशः
मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीन् । अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ।। १
मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति ! वीरो जनन्या मम च राज्ञो दशरथस्य च ॥ २
स भूयस्त्वं समुत्साहचोदितो हरिसत्तम । अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ।। ३
त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम । तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत् ॥ ४
हनुमन् यत्नमास्थाय दुःखक्षयकरो भव । स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ॥ ५
शिरसावन्द्य वैदेहीं गमनायोपचक्रमे । प्रात्वा संप्रस्थितं देवी वानरं मारुतात्मजम् ।। ६
बाष्पगद्गया वाचा मैथिली वाक्यमनवीत् । कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ ॥ ७
सुप्रीय च सहामात्यं वृद्धान् सर्वांश्च वानरान् । अयावं वानरश्रेष्ठ कुशलं धर्मसंहितम् ॥ ८