पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इदं श्रेष्ठममिज्ञानं ब्रूयास्त्वं तु मम प्रियम् । शैलस्य चित्रफूटस्य पादे पूर्वोत्तरे पुरा ॥ १२
तापसाश्रमवासिन्याः प्राज्यमूलफलोदके । तस्मिन् सिद्धाश्रिते देशे मन्दाकिन्या ह्यदूरतः॥ १३
तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु । विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ॥ १४
ततो मां स समायुक्तो वायसः पर्यतुण्डयत् । तमहं लोप्टमुद्यम्य वारयामि स्म वायसम् ।। १५
दारयन् स च मां काकस्तत्रैव परिलीयते । न चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः ॥ १६
उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे । स्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥ १७
त्वयापहसिता चाहं कुद्धा संलग्निता तथा । भक्षगर्धेन काकेन दारिता त्वामुपागता ॥ १८
आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् । क्रुध्यन्ती च प्रहृष्टेन त्वयाहं परिसान्त्विता ॥ १९
बाष्पपूर्णमुखी मन्दं चक्षुपी परिमार्जती । लक्षिताहं त्वया नाथ वायसेन प्रकोपिता ।। २०
परिश्रमात् प्रसुप्ता च राघवाङ्केऽऽप्यहं चिरम् । पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ॥ २१
स तत्र पुनरेवाथ वायसः समुपागमत् । ततः सुप्तप्रबुद्धां मां राघवाङ्कात् समुत्थिताम् ।। २२
वायसः सहसागम्य विरराद स्तनान्तरे । पुनः पुनरथोत्पत्य विददार स मां भृशम् ।। २३
ततः समुक्षितो रामो मुक्तैः शोणितबिन्दुभिः । वायसेन ततस्तेन बलवत् क्लिश्यमानया ।। २४
स मया बोधितः श्रीमान् सुखसुप्तः परंतपः । स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा ।। २५
आशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत । केन ते नागनासोरु विक्षतं वै स्तनान्तरम ॥ २६
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना । वीक्षमाणस्ततस्तं वै वायसं समुदैक्षत ।। २७
नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् । पुत्रः किल स शक्रस्य वायसः पततां वरः ।। २८
धरान्तरगतः शीघ्रं पवनस्य गतौ समः । ततस्तम्मिन् महाबाहुः कोपसंवर्तितेक्षणः ॥ २९
वायसे कृतवान् क्रूरां मतिं मतिमतां वरः । स दर्भं संस्तराद्गृह्य ब्राह्मेणास्त्रेण योजयन् ।। ३०
स दीप्त इच कालाग्निर्जज्वालाभिमुखो द्विजम् । स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ।। ३१
वतस्तं वायसं दर्भः सोऽम्बरेऽनुजगाम तम् । अनुसृप्तस्तदा काको जगाम विविधां गतिम् ॥ ३२
प्राणकाम इमं लोकं सर्वं वै विचचार ह । स पित्रा च परित्यक्तः सुरैः सर्वमहर्षिभिः ।। ३३
त्रीँल्लोकान् संपरिक्रम्य तमेव शरणं गतः । स तं निपतितं भूमौ शरण्यः शरणागतम् ।। ३४