पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तौ निराशौ मदर्थं तु शोकसंतापकर्शितौ । सह सर्वर्क्षहिरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ।। ५९
भर्तृभक्तिं पुरस्कृत्य रामादन्यस्य वानर । न स्पृशामि शरीरं तु पुंसो वानरपुंगव ॥ ६०
यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता । अनीशा किं करिष्यामि विनाथा विवशा सती॥ ६१
यदि रामो दशग्रीवमिह हत्वा सबान्धवम् । मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ॥ ६२
श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः ।
न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे ॥ ६३
समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् ।
सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ।। ६४
सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् ।
सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् ॥ ६५
स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय ।
चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ।। ६६
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
सुन्दरकाण्डे सीताप्रत्यानयनानौचित्यं नाम सप्तत्रिंशः सर्गः

अष्टाविंशः सर्गः
वायसवृत्तान्तकथनम्
ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः । सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ॥ १
युक्तरूपं त्वया देवि भाषितं शुभदर्शने । सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ २
स्त्रीत्वान्न त्वं समर्थासि सागरं व्यतिवर्तितुम् । मामधिष्ठाय विस्तीर्ण शतयोजनमायतम् ।। ३
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते । रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ॥ ४
एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः । का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ।। ५
श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः । चेष्टितं यत्त्वया देवि भाषितं च ममाग्रतः ।। ६
कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया। स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् ।। ७
लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः । सामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम् ।। ८
इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना । गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ।। ९
यदि नोत्साहसे यातुं मया सार्धमनिन्दिते । अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् ॥ १०
एवमुक्ता हनुमता सीता सुरसुतोपमा । उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ।। ११