पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स तस्मात् पादपाद्धीमानाप्लुत्य प्लवगर्षभः । ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ॥ ३४
मेरुमन्दरसंकाशो बभौ दीप्तानलप्रभः । अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ।। ३५
हरिः पर्वतसंकाशस्ताम्रवक्त्रो महाबलः । वनदंष्टनखो भीमो वैदेहीमिदमत्रवीत् ॥ ३६
सपर्वतवनोदेशां साट्टप्राकारतोरणाम् । लङ्कामिमां सनाथां वा नयितुं शक्तिरस्ति मे।। ३७
तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया । विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ।। ३८
तं दृष्ट्वाचलसंकाशमुवाच जनकात्मजा । पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम ।। ३९
तव सत्वं बलं चैव विजानामि महाकपे । वायोरिव गतिं चापि तेजश्चाग्नेरिवाद्भुतम् ।। ४०
प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति । उदधेरप्रमेयस्य पारं वानरपुंगव ।। ४१
जानामि गमने शक्तिं नयने चापि ते मम । अवश्यं संप्रधार्याशु कार्यसिद्धिर्महात्मनः ।। ४२
अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वयानघ । वायुवेगसवेगस्य वेगो मां मोहयेत्तव ।। ४३
अहमाकाशमापन्ना ह्युपर्युपरि सागरम । प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेन गच्छतः ।। ४४
पतिता सागरे चाहं तिमिनक्रझषाकुले । भवेयमाशु विवशा यादसामन्नमुत्तमम् ।। ४५
न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन । कलत्रवति संदेहस्त्वय्यपि स्यादसंशयः ।। ४६
ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः । अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ।। ४७
तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः । भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ।। ४८
सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः । कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ।। ४९
युध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः । प्रपतेयं हि ते पृष्ठद्भयार्ता कपिसत्तम ॥ ५०
अथ रक्षांसि भीमानि महान्ति बलवन्ति च । कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम ।। ५१
अथवा युध्यमानस्य पतेयं विमुखस्य ते । पतितां च गृहीत्वा मा नयेयुः पापराक्षसाः ॥ ५२
मां वा हरेयुस्त्वद्धस्ताद्विशसेयुरथापि वा । अव्यवस्थौ हि दृश्येते युद्धे जापराजयौ ।। ५३
अहं वापि विपद्येय रक्षोभिरभितर्जिता । त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु ॥ ५४
कामं त्वमसि पर्याप्तो निहन्तुं सर्वराक्षसान् । राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ।। ५५
अथवादाय रक्षांसि न्यसेयुः संवृते हि माम् । यत्र ते नाभिजानीयुर्हरयो नापि रधवौ ।। ५६
आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः । त्वया हि सह रामस्य महानागमने गुणः ।। ५७
मयि जीवितमायत्तं राघवस्य महात्मनः । भ्रातॄणां च महाबाहो तव राजकुलस्य च ॥ ५८