पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तवादर्शनजेनार्ये शोकन स परिप्लुतः । न शर्म लभते रामः सिंहार्दित इव द्विपः ।। ३७
मलयेन च विन्ध्येन मेरुणा मन्दरेण च । दर्दुरेण च ते देवि शपे मूलफलेन च ।। ३८
यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् । मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ।। ३९
क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ । शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ॥ ४०
न मांसं राघवो भुङ्क्ते न चापि मधु सेवते । वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ।। ४१
नैव दंशान्न मशकान्न कीटान्न सरीसृपान् । राघवोऽपनयेद्गात्रात्त्वद्गतेनान्तरात्मना ।। ४२
नित्यं ध्यानपरो रामो नित्यं शोकपरायणः । नान्यच्चिन्तयते किंचित् स तु कामवशं गतः ।। ४३
अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः । सीतेति मधुरां वाणीं व्याहरन् प्रतिबुध्यते ।। ४४
दृष्ट्वा फलं वा पुष्पं वा यद्वान्यत् सुमनोहरम् । बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ॥ ४५
स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः ।
धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ।। ४६
सा रामसंकीर्तनवीतशोका रामस्य शोकेन समानशोका ।
शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ।। ४७
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
सुन्दरकाण्डे अङ्गुलीयकदानं नाम षट्त्रिंशः सर्गः

सप्तत्रिंशः सर्गः
सीताप्रत्यानयनानौचित्यम्
सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना । हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ।। १
अमृतं विषसंसृष्टं त्वया वानर भाषितम् । यच्च नान्यमना रामो यश्च शोकपरायणः॥ २
ऐश्वर्यं वा सुविस्तीर्णं व्यसने वा सुदारुणे । रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ।। ३
विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम । सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ।। ४
शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति । प्लवमानः परिश्रान्तो हतनौः सागरे यथा ।। ५
राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् । लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ॥ ६
स वाच्यः संत्वरस्वेति यावदेव न पूर्यते । अयं संवत्सरः कालस्तावद्धि मम जीवितम् ।। ७
वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम । रावणेन नृशंसेन समयो यः कृतो मम ॥ ८
विभीषणेन च भ्रात्रा मम निर्यातनं प्रति । अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ।। ९
मम प्रतिप्रदानं हि रावणस्य न रोचते । रावणं मार्गते संख्ये मृत्युः कालव्शं गतम् ।। १०