पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
एकादशः सर्ग:


ऋषेर्भितास्तु शीघ्रं ता गमनाय मतिं दधुः । अस्माकमपि मुख्यानि फलानीमानि वै द्विज ।। १९
गृहाण प्रति भद्रं ते भक्षयस्व च मा चिरम् । ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः॥ २०
मोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्शुभान् । तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते ॥
अनास्वादितपूर्वाणि वने नित्यनिवासिना । आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च ।। २२
गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः । गतासु तासु सर्वासु कश्यपस्यात्मजो द्विजः।। २३
अस्वस्थहृदयश्चासीदुःखाञ्च परिवर्तते ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान् ।। २४
विभण्डकसुतः श्रीमान् मनसा चिन्तयन् मुहुः । मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः।।२५
दृष्ट्वैव च तदा विप्रमायान्तं हृष्टमानसाः । उपसृत्य ततः सर्वस्तास्तमूचुरिदं वचः ।। २६
एह्याश्रमपदं सौम्य ह्यस्माकमिति चाब्रुवन् । चित्राण्यत्र बहूनि स्युर्मूलानि च फलानि च ।।
तत्राप्येष विधिः श्रीमान् विशेषेण भविष्यति । श्रुत्वा तु वचनं तासां सर्वासां हृदयंगमम् ॥ २८
गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः । तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि ।। २९
ववर्ष सहसा देवो जगत् प्रह्लादयंस्तदा । वर्षेणैवागतं विप्रं विषयं स्वं नराधिपः ।।
प्रत्युद्गम्य मुनिं प्रह्व्: शिरसा च महीं गतः । अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः ।। ३१
वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् । अन्त:पुरं प्रवेश्यास्मै कन्यां दत्त्वा यथाविधि ॥ ३२
शान्तां शान्तेन मनसा राजा हर्षमवाप सः एवं स न्यवसत्तत्र सर्वकामैः सुपूजितः ।। ३३
ऋश्यशृङ्गो महातेजाः शान्तया सह भार्यया ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चर्तुविंशतितिमहस्त्रिकायां संहितायां
बालकाण्ड ऋश्यशृङ्गस्याङ्गदेशानयनप्रकारो नाम दशमः सर्गः

एकादशः सर्गः
ऋश्यशृङ्गस्य योच्याप्रवेशः


भूय एव हि राजेन्द्र शृणु मे वचनं हितम् । यथा स देवप्रवरः कथायामेवमब्रवीत् ।। १
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः । राजा दशरथो नाम श्रीमान् सत्यप्रतिश्रवः ।।
अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति । कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥३
पुत्रस्तु सोऽङ्गराजस्य रोमपाद इति श्रुतः । तं स राजा दशरथो गमिष्यति महायशाः ।।
अनपत्योऽस्मि धर्मात्मन् शान्ताभर्ता मम क्रतुम् । आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च ।।