पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हनुमानिति विख्यातो लोके स्वेनैव कर्मणा । विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ॥ ८३
अचिराद्राघवो देवि त्वामितो नयितानघे । एवं विश्वासिता सीता हेतुभिः शोककर्शिता ॥ ८४
उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति । अतुलं च गता हर्षं प्रहर्षेण च जानकी ॥ ८५
नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजं जलम् । चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।। ८६
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् । हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा ॥ ८७
अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् । एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि ।। ८८
किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ॥ ८९
हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् ॥ ९०
ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ।। ९१
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चनुर्विंशतिसहस्रिकायां संहितायाम्
सुन्दरकाण्डे विश्वासोत्पादनं नाम पञ्चविंशः सर्गः

षट्त्रिंश. मर्गः
अङ्गुलीयकप्रदानम्
भूय एव महातेजा हनुमान् मारुतात्मजः । अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ।। १
वानरोऽहं महाभागे दूतो रामस्य धीमतः । रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ।। २
प्रत्ययार्थ तवानीतं तेन दत्तं महात्मना । समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ॥ ३
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् । भर्तारमिव संप्राप्तं जानकी मुदिताभवत् ।। ४
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् । बभूव हर्षोदग्रं च राहुमुक्त इवोडुराट् ।। ५
ततः सा ह्रीमती बाला भर्तृसंदेशहर्षिता । परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ।। ६
विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम । येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ।। ७
शतयोजनविस्तीर्णः सागरो मकरालयः । विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ।। ८
न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ । यस्य ते नास्ति संत्रासो रावणान्नापि संभ्रमः ॥ ९
अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम । यद्यसि प्रपितस्तेन रामेण विदितात्मना ।। १०
प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम् । पराक्रममविज्ञाय मत्सकाशं विशेषतः ॥ ११
दिष्ट्या स कुशली रामो धर्मात्मा सत्यसंगरः । लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।। १२
कुशली यदि काकुत्स्थः किं न सागरमेखलाम् । महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ।। १३
अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे । ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ।। १४