पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ततस्तु मार्गमाणास्ते सुग्रीववचनानुगाः । चरन्ति वसुधां कृत्स्नां क्यमन्ये च वानराः ॥ ५५
अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः । प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः ॥ ५६
तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे । भृशं शोकपरीतानामहोरात्रगणा गताः ॥ ५७
ते वयं कार्यनैराश्यात् कालस्यातिक्रमेण च । भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः।।५८
विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च । अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः ॥ ५९
ततस्तस्य गिरेमूर्ध्नि वयं प्रायमुपास्महे । दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुंगवान् ॥ ६०
भृशं शोकार्णवे ममः पर्यदेवयदङ्गदः । तव नाशं च वैदेहि वालिनश्च तथा वधम् ॥ ६१
प्रयोपवेशमस्माकं मरणं च जटायुषः । तेषां नः स्वामिसंदेशान्निराशानां मुमूर्षताम् ॥ ६२
कार्यहेतोरिवायातः शकुनिर्वीर्यवान् महान् ! गृध्रराजस्य सोदर्यः' संपातिर्नाम गृध्रराट् ॥ ६३
श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् । यवीयान् केन मे भ्राता हतः क्व च निपातितः ॥६४
एतदाख्यातुमिच्छामि भवद्भिर्वारोत्तमाः । अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम् ॥ ६५
रक्षसा भीमरूपेण त्वामुद्दिव्य यथातथम् । जटायुषो वधं श्रुत्वा दुःखितः सोऽरुणात्मजः॥६६
त्वामाह स वरारोहे वसन्तीं रावणालये । तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम् ॥ ६७
अङ्गदप्रमुखाः सर्वे ततः संप्रस्थिता वयम् । विन्ध्यादुत्थाय संप्राप्ताः सागरस्यान्तमुत्तरम् ॥ ६८
त्वद्दर्शनकृतोत्साहा दृष्टास्तुष्टाः प्लवङ्गमाः । अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपस्थिताः ॥ ६९
चिन्तां जग्मुः पुनर्भीतास्त्वदर्शनसमुत्सुकाः । अथाहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः ।। ७०
व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः । लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ॥ ७१
रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता । एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते ॥ ७२
अभिभाषस्व मां देवि दूतो दाशरथेरहम् । तं मां रामकृतोद्योगं त्वनिमित्तमिहागतम् ।। ७३
सुग्रीवसचिवं देवि बुध्यस्व पवनात्मजम् । कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ।। ७४
गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः । तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ।। ७५
अहमेकस्तु संप्राप्तः सुग्रीववचनादिह । मयेयमसहायेन चरता कामरूपिणा ॥ ७६
दक्षिणा दिगनुक्रान्ता त्वन्मार्गविषयैषिण। । दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ।। ७७
अपनेष्यामि संतापं तवाधिगमशंसनात् । दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम् ।। ७८
प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः । राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते । ७९
समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् । माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः ।। ८०
ततो गच्छति गोकर्णं पर्वतं केसरी हरिः । स च देवर्षिभिर्दिष्टः पिता मम महाकपिः ॥ ८१
तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् । तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ॥ ८२