पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः । तयोः समीपं मामेव प्रेषयामास सत्वरम् ॥ २९
तावहं पुरुपच्याघ्रौ सुग्रीववचनात् प्रभू । रूपलक्षणसंपन्नौ कृताञ्जलिरुपस्थितः ॥ ३०
तो परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ । पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ ॥३१
निवेदितौ च तत्वेन सुग्रीवाय महात्मने । तयोरन्योन्यसंलापाद्भृशं प्रीतिरजायत ॥ ३२
तत्र तौ प्रीतिसंपन्नौ हरीश्वरनरेश्वरौ । परस्परकृताश्वासौ कथया पूर्ववृत्तया ॥ ३३
तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः । स्त्रीहेतोर्बलिना भ्रात्रा निरस्तमुरुतेजसा । ३४
ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः । लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ॥ ३५
स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः । तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान् ॥ ३६
ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया । यान्याभरणजालानि पातितानि महीतले ॥ ३७
तानि सर्वाणि रामाय आनीय हरियूथपाः । संदृष्टा दर्शयामामुर्गतिं तु न विदुस्तव ।। ३८
तानि रामाय दत्तानि मयैवोपहतानि च । स्वनवन्त्यवकीर्णानि तस्मिन् विगतचेतसि ।। ३९
तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव । तेन देवप्रकाशेन देवेन परिदेवितम् ॥ ४०
पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः । प्रादीपयन् दाशरथेस्तानि शोकहुताशनम् ।। ४१
शयितं च चिरं तेन दुःखार्तेन महात्मना । मयापि विविधैर्वाक्यैः कृच्छादुत्थापितः पुनः ॥ ४२
तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुः । राघवः सहसौमित्रिः सुग्रीवे संन्यवेशयत् ॥ ४३
स तवादर्शनादार्ये राघवः परितप्यते । महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ॥ ४४
त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् । तापयन्ति महात्मानमग्न्यगारमिवामयः ।। ४५
तवादर्शनशोकेन राघवः परिचाल्यते । महता भूमिकम्पेन महानिव शिलोच्चयः ।। ४६
काननानि सुरम्याणि नदीः प्रस्रवणानि च । चरन्न रतिमाप्नोति त्यामपश्यन्नृपात्मजे ॥ ४७
स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः । समित्रबान्धवं हत्वा रावणं जनकात्मजे ॥ ४८
सहितौ रामसुग्रीवावुभावकुरुतां तदा । समयं वालिनं हन्तुं तव चान्वेषणं प्रति ।। ४९
ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः । किष्किन्धां समुपागम्य वाली युधि निपातितः ।।५०
ततो निहत्य तरसा रामो बालिनमाहवे । सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत् पतिम् ।। ५१
रामसुग्रीवयोरैक्यं देव्येवं समजायत । हनूमन्तं च मां विद्धि तयोर्दूतमिहागतम् ।। ५२
स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान् । त्वदर्थ प्रेषयामास दिशो दश महाबलान् । ५३
आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा । अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ॥ ५४