पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् । वानराणां नराणां च कथमासीत् समागमः ।। २
यानि रामम्य लिङ्गानि लक्ष्मणस्य च वानर । तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ॥ ३
कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् । कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ।। ४
एवमुक्तस्तु वैदेह्या हनुमान् पवनात्मजः । ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥ ५
जानती बत दिष्ट्या मां वैदेहि परिपृच्छसि । भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च ॥ ६
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै । लक्षितानि विशालाक्षि वदतः शृणु तानि मे ॥ ७
रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः । रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे ॥ ८
तेजसादित्यसम्काशः क्षमया पृथिवीसमः । बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ।। ९
रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता । रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः ॥ १०
रामो भामिनि लोकेऽस्मिंश्चातुर्वर्ण्यस्य रक्षिता । मर्यादानां च लोकस्य कर्ता कारयिता च सः॥११
अर्चिष्मानर्चितो नित्यं ब्रह्मचर्यव्रते स्थितः। साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ॥ १२
राजविद्याविनीतश्च ब्राह्मणानामुपासिता । श्रुतवाञ्शीलसंपन्नो विनीतश्च परंतपः ।। १३
यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः । धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः ।। १४
विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः । गूढजत्रुः सुनासाक्षो रामो देवि जनैः श्रुतः ॥ १५
दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् ! समः समविभक्ताङ्गो वर्णे श्यामं समाश्रितः ॥ १६
त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः । त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः ॥ १७
त्रिवलीमांस्त्र्यवनतश्चतुव्यंगस्त्रिशीर्षवान् । चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः ।। १८
चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्गतिः । महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान् ।। १९
दशपद्मो दशबृहत् त्रिभिर्व्याप्तो द्विशक्तवान् । षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः ।। २०
सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः । देशकालविभागज्ञः सर्वलोकप्रियंवदः ॥ २१
भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः । अनुरागेण रूपेण गुणश्चैव तथाविधः ।। २२
तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ । विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसंगतौ ।। २३
त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् । ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ।। २४
ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले । भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम् ॥ २५
वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम् । परिचर्यास्महे राज्यात् पूर्वजेनावरोपितम् ॥ २६
ततस्तौ चीरक्सनौ धनुःप्रवरपाणिनौ । ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ।। २७
स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः । अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ।। २८